________________
भाष्यम् उ०७ सू० २५-२६
वसतिवासावग्रहानुज्ञापनाविधिः १८५ पूर्वमुपाश्रयमधिकृत्य शय्यातरविधिः प्रदर्शितः, साम्प्रतमुपाश्रयस्याऽवग्रहविधिमाह'विहवधूया' इत्यादि ।
सूत्रम्--विहवधूया नायकुलवासिणी सावि यावि ओग्गहं अणुन्नवेयव्वा किमंग! पुण पिया वा भाया वा पुत्ते वा सेवि यावि ओग्गरं ओगिहियव्वे ॥ सू० २४ ॥
छाया-विधवदुहिता ज्ञातकुलवासिनी साऽपि चापि अवग्रहमनुशापयितव्या किमा? पुनः पिता वा भ्राता वा पुत्रो वा सोऽपि चापि अवग्रहमवग्रहीतव्यः। सू०२४ ॥
भाष्यम्-'विहवध्या' विधवदुहिता तत्र विगतः धवः-पतिर्यस्याः सा विधवापतिरहिता, दुहिता-उपाश्रयस्वामिनः कन्या, कीदृशीत्याह-'नायकुलवासिणी' ज्ञातकुलवासिनीपतिपक्षरहितत्वेन पितृगृहवासिनी पितृपक्षवासिनी पितृपितामहादिगृहवासिनी वा 'सावि यावि
ओग्गहं अणुन्नवेयव्वा' साऽपि चापि-साऽपि चावग्रहमनुज्ञापयितव्या-अवग्रहम्-आज्ञा प्रति अनुज्ञापयितव्या-आज्ञाग्रहणयोग्या भवति, साधुभिर्वासाय एषाऽपि प्रष्टव्येत्यर्थः, एतस्या अनुज्ञामादाय उपाश्रये वासः करणीयो न त्वाज्ञामन्तरेण निवसेदितिभावः । यदि पितृगृहस्थिता विधवाऽपि आज्ञाग्रहणार्थ योग्या भवति तर्हि--'किमंग ! पुण पिया वा भाया वा पुत्ते वा' किमङ्ग पुनः पिता वा भ्राता वा पुत्रो वा, 'सेवि यावि' सोऽपि च सुतराम् 'ओग्गहं ओगेण्हियव्वे' अवग्रहमवग्रहीतव्यः । यदि विधवा दुहिता स्थानार्थमनुज्ञापयितव्या भवेत्तदा का कथा पितृभ्रातृपुत्रा दीनाम्, अतस्ते सर्वेऽपि निवासार्थमनुज्ञापयितव्याः। तत्र पुत्रादयो द्विप्रकारकाः प्रज्ञप्ताः प्रभवः सत्ताधारिणः, अप्रभवः--सत्तावर्जिताः, तत्राऽप्रभव एते गृहीतभागः पृथग्भूतो भ्राता १, पुत्रो वा २, प्राधूर्णकः ३, दासः ४, भृतकः ५, जामात्रे दत्ता पितृपक्षद्विष्टा कन्या च ६, एते निस्सत्ताका अप्रभवो नानुज्ञापनीयाः, एतेषामुपाश्रयाज्ञा न ग्रहीतव्या श्रमणैरिति भावः । अथ च-अप्रभूणामनुज्ञापने सम्भवन्त्येते दोषाः, तथाहि-अप्रभूननुज्ञाप्य यदि कुत्रचित् उपाश्रये गृहे वा श्रमणः स्थास्यति तदा--यदा गृहस्वामी आगमिष्यति, अथ यदि तस्य साधुनिवासो नानुमतो भवेत् तदा स गृहस्वामी दिवा रात्रौ वा उपाश्रयात् श्रमणान्निष्कासयेत् । तत्र--निष्काशने लोके महती निन्दा स्यात् , कथयिष्यन्ति च लोकाः यत् इमे साधवो दुष्टाः अशुभकर्मकारिणः सन्तीति प्रतिभाति, अत एव अमुकेन श्रावकेन स्वोपाश्रयान्निष्का-- सिता इति, कदाचित् स्थानान्तरमलभमानानामकिञ्चनानामिव यत्र तत्र परिभ्रमणं स्यात्, इत्यादिबहवो दोषाः संभवेयुः। तथा-अद तादानदोषोऽपि स्यात्, तेनाऽऽज्ञाभङ्गादयो दोषा अपि समापतेयुः, तस्मात् गृहस्वामिनो वा तन्निर्दिष्टाद्वा वसतेराज्ञा ग्रहीतव्येति भावः ॥ सू० २४ ॥