________________
१८२
व्यवहारसूत्र पूर्व चतुर्विशतितमसूत्रे नगरे वसता श्रमणेनाऽवग्रहयाचना कर्त्तव्येति कथितम् स च श्रमणो यथानगरे तिष्ठति तथा विहारं कुर्वन् श्रमणः कदाचिदटव्यामपि वसेदिति वनेऽपि तिष्ठता श्रमणेन तत्रापि अवग्रहयाचना कर्तव्येति दर्शयितुं पञ्चविंशतितम सूत्रं व्याख्यातुमाह-'पहेवि ओग्ग इत्यादि ।
सूत्रम-पहेवि ओग्गहं अणुन्नवेयवे ॥ सू० २५॥ छाया-पथि अपि अवग्रहमनुशापयितव्यः ॥ सू० २५॥
भाष्यम्-पथि अपि, तत्र पथि-मार्गे अपिशब्दाद् वृक्षाद्यधः अटव्यादौ च 'ओग्गहं' अवग्रहम्-निवासार्थमात्मनो निवासविषयकं याचनं प्रति कोऽपि वृक्षादिस्वामी भवेत् सः 'अणुन्नवेयव्वे' अनुज्ञापयितव्यः, तत्सकाशान्निवासविषयाज्ञा ग्रहीतव्येति भावः । मार्गे यत्र वृक्षादौ छायायां विश्राम्यन्तो ये यत्र पथिकाः प्रथमं स्थितास्तिष्ठन्ति तानपि पृष्ट्वा तत्र श्रमणस्तिष्ठेत्, अपृष्ट्वा तु तत्रापि न स्थातव्यम् । यत्र ते सागारिका वसेयुर्वृक्षादिमूले ते तु सुतरामेव अनुज्ञापयितव्याः, ततो भवन्ति ते शय्यातराः । यत्र वृक्षस्याऽधस्तात् अन्यत्र वा एकस्य परिग्रहे अनेकेषां वा परिग्रहे साधवो रात्रौ वसन्ति तर्हि यदिसंस्तरेयुस्तदा सर्वानेव तान् शय्यातरान् कुयुः अथाहाराद्यलाभेन न संस्तरेयुस्तदा तन्मध्ये एक एव शय्यातरत्वेन स्थापयितव्यः, इत्येषा शेषेषु सागारिकेषु भजनेति ॥ सू० २५ ॥
पूर्व शय्यातरावग्रहानुज्ञापनाविधिरुक्तः, सम्प्रति राजपरावर्तेऽवग्रहानुज्ञापनाविधिमाह-'से रज्जपरिपपट्टेसु' इत्यादि।
सूत्रम्-से रज्जपरिपट्टेसु संथडेसु अब्बोगडेसु अवोच्छिन्नेसु अपरपरिग्गहिएसु सच्चेव ओग्गहस्स पुव्वाणुन्नवणा चिट्ठइ अहालंदमवि ओग्गहे ॥ सू० २६ ॥
__छाया-तस्य राजपरावर्तेषु संस्तृतेषु अव्याकृतेषु अव्यवच्छिन्नेषु अपरपरिगृहीतेषु सैवाऽवग्रहस्य पूर्वानुमापना यथालन्दनमपि अवग्रहः ॥ सू० २६ ॥
भाष्यम्-‘से रज्जपरिपट्टेसु' 'से' तस्य श्रमणस्य राजपरावर्तेषु राज्ञः परावर्त्तने जाते सति, तत्र-राजपरावत्तों नाम पूर्व यो राजा शासनं कुर्वन्नासीत् स राजा कालगतोऽभूत् नवीनश्च राजा तस्मिन् स्थानेऽभिषिक्तः, तेषु राजपरावर्तेषु । पुनः कथम्भूतेषु ! तत्राह -'संथडेसु' संस्तृतेषु-सम्यगुरूपेण समर्थेषु-न कोऽपि प्रत्यन्तरराजा तदीयराज्यं विलुम्पितुं शक्नोति ताहशेषु सामर्थ्यवत्सु । पुनः कथम्भूतेषु राजपरावर्तेषु ? 'अयोगडेसु' अव्याकृतेषु--व्याकृतरहितेषु येषां दायादानां तदाज्यसामान्य तैर्दायादैरविभक्तेषु दायादभागवर्जितेषु । पुनः कथम्भू. तेषु राजपरावर्तेषु ? तत्राह-'अवोच्छिन्नेसु'अव्यवच्छिन्नेषु-वंशपरम्परागतं तदाज्यमद्यावधि न