________________
व्यवहारसूत्र श्रमणा निम्रन्थास्तिष्ठन्तु तदोभावपि शय्यातरौ इति द्वयोरपि तयोर्भक्तपानादिकं साधुभिर्न ग्रहीतव्यमिति भावः ॥ सू० २२ ॥
सूत्रम्-सागारिए उवस्सयं विक्किणिज्जा से य कइयं वएज्जा इममि य इमंमि य ओवासे समणा णिग्गंथा परिवसंति, से य सागारिए परिहारिए, से य नो वएज्जा कइए वएज्जा से सागारिए परिहारिए, दोवि ते वएज्जा दोवि सागारिया परिहारिया ॥ सू० २३॥
छाया-- सागारिक उपाश्रयं विक्रीणीत, स च क्रयिकं वदेत्-अस्मिश्च अस्मिश्च अवकाशे श्रमणा निर्ग्रन्थाः परिवसन्ति, स च सागारिकः परिहार्य्य:, स च नो वदेत् , अवक्रयिको वदेत् स सागारिकः परिहार्यः, द्वावपि तौ वदेयाताम् द्वावपि सागारिको परिहाय्यौं । सू० २३॥ - भाष्यम्-'सागारिए' सागारिकः-शय्यातरः ‘उवस्सयं' उपाश्रय--वसतिम् 'विकिणिज्जा' विक्रीणीत-उपाश्रयस्य विक्रयं कुर्यात् मूल्येन दद्यादित्यर्थः तस्योपाश्रयस्य यावन्मूल्यं तद् गृहीत्वा तमुपायं मूल्यदात्रे दद्यात् , 'से य कइयं वएज्जा' स च क्रयिकं वदेत् स चोपाश्रयस्य विक्रेता सागारिकः यो मूल्यं दत्वा उपाश्रयं गृह्णाति तं प्रति वदेत्-'इमंमि य इममि य ओवासे समणा णिग्गंथा परिवसंति' त्वया मूल्येन गृहीतस्यास्योपाश्रयस्य अस्मिंश्चास्मिंश्च अवकाशे श्रमणा निम्रन्थाः परिवसन्ति-अस्योपाश्रयस्यामुकप्रदेशे साधवस्तिष्ठन्ति, अतस्तादृशं देशं परित्यज्योपाश्रयं भवते ददामि, ‘से य सागारिए परिहारिए' स च सागारिकः शय्यातरः इति शय्यातरत्वात् स परिहार्यः-परिहर्तव्यः भक्तपानादिकं गृह्णद्भिः तस्य प्रतिषेधः कार्यः । ‘से य नो वएज्जा' स च-पूर्वस्वामी यदि किश्चिदपि न वदेत् किन्तु 'कइए वएज्जा' क्रयिकः-यो मूल्यं दत्त्वा उपाश्रयं गृह्णाति स एव वदेत्-यथा-अस्योपाश्रयस्याऽमुकप्रदेशे मत्क्रीतेऽपि श्रमणा निम्रन्थाः यथासुखं तिष्ठन्तु, तदा-'से सागारिए परिहारिए' स च क्रेता सागारिकः शय्यातर इति कृत्वा परिहार्यः-परिहर्त्तव्यः, तद्गृहं भक्तपानाद्यर्थे परिवर्जनीयमिति । 'दोवि ते वएज्जा दोवि सागारिया परिहारिया' अथवा द्वावपि तौ पूर्वप्रकारेण वदेयाताम् तदा द्वावपि सागारिको शय्यातरौ परिहार्यो-परिहर्त्तव्यौ । अथ यदि द्वावपि वदेयाताम् यथा पूर्वस्वामिना कथितम्'एतावत्येकदेशे श्रमणा निर्ग्रन्थास्तिष्ठन्तु' परन्तु तावति प्रदेशे श्रमणानां समावेशमदृष्ट्वा मूल्येन ग्रहीता वदेत्-एतावति मदीयेऽपि प्रदेशे तिष्ठन्तु श्रमणा निर्ग्रन्थाः, तदा द्वावपि सागारिकोशय्यातरौ इति तो द्वावपि परिहारों-परिहर्तव्यौ, तद्गृहेभ्यो भक्तपानादिकं कदाचिदपि न प्रायम् ॥ सू० २३ ॥