________________
भाग्यम् उ०७ सू० २१-२२
भिक्षोमतदेहपरिष्ठापनविधिः १७७
आचार्यरूपेण 'उद्दिसित्तए' उद्देष्टुं--स्वीकर्तुम्, पञ्चवर्षपर्यायः श्रमणः षष्टिवर्षपर्यायवत्याः श्रमण्याः आचार्यों भवितुमर्हतीति भावः । अत्र विषये अस्यैव व्यवहारसूत्रस्य तृतीयोदेशकस्य तृतीयसूत्रे त्रिवर्षपर्यायस्य श्रमणनिग्रन्थस्योपाध्यायत्वम् , पञ्चमे सूत्रे च पञ्चवर्षपर्यायस्य श्रमणनिर्ग्रन्थस्य च आचार्योपाध्यायत्वं कल्पते इति प्रोक्तमित्युभयोर्भेदः। ननु त्रिंशद्वर्षपर्यायायास्त्रिवर्षपर्याय उपाध्यायः, पश्चवर्षपर्यायश्च षष्टिवर्षपर्यायाया आचार्यश्च भवेत्तदाऽधिकपर्यायवती श्रमणी अल्पपर्यायस्य श्रमणस्य कथं वन्दनादिव्यवहारं कुर्यात , एतदनुचितं प्रतिभाति ? तत्राह-नैवं शङ्कनीयम् जिनशासने पुरुषज्येष्ठस्य धर्मस्य तीर्थकरैः प्रतिपादितत्वादिति, किं बहुना--श्रमण एकदिवसपर्यायोऽपि शतवर्षपर्यायायाः श्रमण्या वन्दनीयो भवतीति शास्त्रसंमतम् ॥ सू० २० ॥
पूर्व पर्यायमाश्रित्य पदवीदानविधिः प्रदर्शितः, सम्प्रति--मृतश्रमणदेहस्य परिष्ठापनविधिमाह'गामाणुगाम' इत्यादि ।
सूत्रम्-गामाणुगामं दूइज्जमाणे भिक्खू य आहच्च वीसंभेजा तं च सरीरगं केइ साहम्मिए पासेज्जा कप्पइ से तं सरीरगं न सागारियमिति कटु थंडिले बहुफासुए पडिले हित्ता पमज्जित्ता परिहवेत्तए, अत्थि य इत्थ केइ साहम्मियसंतिए उवगरणजाए परिहरणारिहे कप्पइ से सागारकडं गहाय दोन्चंपि ओग्गहे अणुण्णवेत्ता परिहारं परिहरित्तए ॥ सू० २१॥
छाया-ग्रामानुग्रामं द्रवन् भिक्षुश्चाहत्य विष्वग्भवेत्, तं च शरीरकं कश्चित्साधमिकः पश्येत् कल्पते तस्य तच्छरीरकं न सागारिकमिति कृत्वा स्थण्डिले बहुप्रासुके प्रतिलेख्य प्रमाणं परिस्थापयितुम् । आस्ति चात्र किञ्चित् साधर्मिकसत्कमुपकरणजातं परिहरणाहम्, कल्पते तस्य सागारकृतं गृहीत्वा द्वितीयमपि अवग्रहमनुज्ञाप्य परिहार परिहर्तम् ॥ सू० २१ ॥
भाष्यम्--'गामाणुगाम' ग्रामानुग्रामम्-एकस्माद् प्रामाद् प्रामान्तरम् 'दइज्जमाणे द्रवन्-विहारवृत्त्या गच्छन् , 'भिक्खू य' भिक्षुश्च श्रमणः 'आहच्च' माहत्य-कदाचित् 'वीसंभेज्जा' विष्वग्भवेत्-शरीराद् विष्वक्-पृथग्भवेत्-म्रियेत-कालगतो भवेदित्यर्थः 'तं च सरीरंग केइ साहम्मिया पासेज्जा' तच्च शरीरकं कश्चित् साधर्मिकः-सहगतः श्रमणः पश्येत्-अयं मृत इति जानीयात्तदा 'कप्पई' कल्पते 'से' तस्य साधर्मिकस्य भिक्षोः 'तं सरीरगं' तन्मृतशरीरम् 'न सागरियमिति कटु' न सागारिक-सागारसंबन्धि-गृहस्थसंबन्धि मा भवतु गृहस्था इदं मृतकशरीरं मा स्पृशन्तु 'इति कटु' इति कृत्वा-इति बुद्धया
क्य. २३