________________
१७६
व्यवहारसूत्र ध्यायिके 'सज्झायं करित्तए' स्वाध्यायं कर्तुं न कल्पते इति सम्बन्धः, किन्तु 'कप्पइ ण्इं अन्नमन्नस्स' कल्पते खलु अन्योऽन्यस्य-परस्परस्य 'वायणं दलइत्तए' वाचनां दातुम् अन्यत्र अन्यस्थाने अन्यद्वारा वा । तत्रात्मसमुत्थमस्वाध्यायिकं श्रमणस्यैकं भवति रोगजम्, श्रमण्याश्च द्विविधम्-रोगजम् ऋतुजं च, तत्र रोगजम् अर्शोभगन्दरवणादिविषयम् , ऋतुजं च ऋतुविषयम् । तत्र श्रमणस्य रक्तपूयादिदर्शनं यावत् , श्रमणीनां च रक्तप्यरजोदर्शनं यावद् अस्वाध्यायिक भवति, तस्मिन् काले निर्ग्रन्थनिर्ग्रन्थीनां स्वाध्यायं कर्तुं न कल्पते, किन्तु व्रणादिस्थानमष्टपुटवस्त्रेणाच्छाद्याऽन्योऽन्यस्य-परस्परस्य वाचनां अर्थरूपां दातुं श्रोतुं वा कल्पते ॥ सू०१८ ॥
पूर्वमस्वाध्यायिके स्वाध्यायनिषेधः, स्वाध्यायिके स्वाध्यायविधिश्च प्रदर्शितः, सम्प्रति स्वाध्यायिके नित्यस्वाध्यायकारकः श्रमणः पदवीयोग्यो भवति, स चाऽल्पपर्यायोऽपि बहुपर्यायवत्याः श्रमण्या उपाध्यायतया आचार्यतया च उद्देष्टुं कल्पते इति सूत्रद्वयेनाह-'तिवास.' इत्यादि।
सूत्रम्-तिवासपरियाए समणे णिग्गंथे तीसंवासपरियायाए समणीए णिग्गंथीए कप्पइ उवज्झायचाए उदिसित्तए ॥ सू०१९ ॥
छाया-त्रिवर्षपर्यायः श्रमणो निर्ग्रन्थः त्रिंशद्वर्षपर्यायायाः श्रमण्याः निर्ग्रन्थ्याः कल्पते उपाध्यायतया उद्देष्टुम् ॥ सू० १९ ॥
भाष्यम्--'तिवासपरियाए' समणे णिग्गंथे' त्रिवर्षपर्यायः श्रमणो निम्रन्थः, त्रिवर्ष--वर्षत्रयं यथा स्यात् पर्यायो-दीक्षाग्रहणसमयो विद्यते यस्य स त्रिवर्षपर्यायः श्रमणो निम्रन्थो भवेत्तदा सः 'तीसंवासपरियार' त्रिंशद्वर्षपर्यायायाः-त्रिंशद्वर्षदीक्षापर्यायवत्याः 'समणीए णिग्गंथीए' श्रमण्या निम्रन्थ्याः 'कप्पइ उवज्झायत्ताए उदिसित्तए' कल्पते उपाध्यायतया उद्देष्टुंस्वीकर्तुम्, त्रिंशद्वर्षपर्यायवत्याः श्रमण्याः त्रिवर्षपयायः श्रमणः उपाध्यायो भवितुमर्हतीति भावः ॥१९॥
पुनराह-पंचवासपरियाए' इत्यादि ।
सूत्रम्-पंचवासपरियाए समणे निग्गंथे सहिवासपरियायाए समणीए निगंथीए कप्पइ आयरियत्ताए उद्दिसित्तए ॥ सू०२० ॥
छाया–पञ्चवर्षपर्यायः श्रमणो निर्ग्रन्थः षष्टिवर्षपर्यायायाः श्रमण्या निन्थ्याः कल्पते आचार्यतया उद्देष्टुं ॥ सू० २० ॥
भाष्यम्-'पंचवासपरियाए' पञ्चवर्षपर्याय:--पञ्चवर्षदीक्षापर्यायः 'समणे निग्गंथे' श्रमणो निर्ग्रन्थो यदि भवेत्तदा सः 'सद्विवासपरियायाए' षष्टिवर्षपर्यायायाः- षष्टिवर्षदीक्षापर्यायवत्याः 'समणीए निग्गंथीए' श्रमण्या निम्रन्थ्याः 'कप्पई' कल्पते, 'आयरियताए' आचार्यतया