________________
मान्यम् 3. ७सू० १६-२०
स्वाध्यायास्वाध्यायविधिनिषेधनि० १७५ ... सम्प्रति समुच्चयेन स्वाध्यायनिषेधमाह-'णो कप्पई' इत्यादि ।
सूत्रम्-णो कप्पइ णिग्गंथाण वा णिग्गंथीण वा असज्झाइए सज्झायं करितए ॥ सू० १६॥
. छाया-नो कल्पते निग्रंथानां वा निर्ग्रन्थीनां वा अस्वाध्यायिके स्वाध्यायं कर्तुम् ॥ सू० १६ ॥
भाष्यम्-'नो कप्पई' नो कल्पते ‘णिग्गंथाण वा णिग्गंथीण वा' निम्रन्थानां वा निर्ग्रन्थीनां वा 'असज्झाइए' अस्वाध्यायिके स्वाध्यायेन निर्वृत्तं स्वाध्यायिकं, न स्वाध्यायिकम् अस्वाध्यायिकम् , तस्मिन्-यदा यत्र वा अस्वाध्यायसम्बन्धि किमपि कारणं भवेत् तत्समये तत्स्थाने वा 'सज्झायं करित्तए' स्वाध्यायं कर्तुम्, यः खलुः अस्वाध्यायिकः कालस्तस्मिन् काले स्वाध्यायं कर्तुं संयतानां संयतीनां वा न कल्पते । अस्वाध्यायिकप्रकरणं सविस्तरमुत्तराध्ययनसूत्रस्यैकोनत्रिंशत्तमेऽध्ययने मत्कृतायां प्रियदर्शनीव्याख्यायामालोकनीयम् ॥ सू० १६॥
अथ स्वाध्यायकाले स्वाध्यायोऽवश्यं कर्त्तव्य इति स्वाध्यायसूत्रमाह-'कप्पइ' इत्यादि । सूत्रम् – कप्पइ णिग्गंथाण वा णिग्गंथीण वा सज्झाइए सज्झायं करित्तए ॥१७॥ छाया- कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा स्वाध्यायिके स्वाध्यायं कर्तुम् ॥१७॥
भाष्यम्-'कप्पई' कल्पते 'निग्गंथाण वा' निर्ग्रन्थानां वा 'निग्गथीण वा' निर्ग्रन्थीनां वा 'सज्झाइए' स्वाध्यायिके-स्वाध्यायकाले 'सज्झायं' स्वाध्यायम् 'करित्तए' कर्तुम् कल्पते, स्वाध्यायकाले निर्ग्रन्थनिर्ग्रन्थीभिरवश्यं स्वाध्यायः कर्तव्यः, नाऽत्र प्रमादः कार्य इति भावः । कस्य सूत्रस्य कः स्वाध्यायकालः ? कस्य सूत्रस्य कोऽस्वाध्यायकालः ? इत्यादि सर्वं नन्दीसूत्रे द्रष्टव्यम् ॥ सू०१७॥
अस्वाध्यायिकं द्विविधं भवति-आत्मसमुत्थं परसमुत्थं च, तत्राऽऽत्मसमुत्थमस्वाध्यायिकमाह-'नो कप्पइ' इत्यादि । - सूत्रम्-नो कप्पइ णिग्गंथाण वा णिग्गंथीण वा अप्पणो असज्झाइए सज्झायं करित्तए, कप्पइ ण्हं अण्णमण्णस्स वायणं दलइत्तए ॥ सू०१८॥
छाया- नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा आत्मनोऽस्वाध्यायिके स्वाध्यायं कर्तुम् , कल्पते खलु अन्योऽन्यस्य वाचनां दातुम् ॥ सू० १८ ॥
भाष्यम्-'नो कप्पई' नो कल्पते 'णिग्गंथाण वा णिग्गंथीण वा' निर्ग्रन्थानां वा निम्रन्थीनां वा, 'अप्पणो' आत्मनः स्वसंबन्धिनि स्वस्मादुत्थिते इत्यर्थः 'असज्झाइए' अस्वा