________________
१७४
व्यवहारसूत्रे
सवित्तए' व्यवशमयितुम् - उपशमयितुं क्षमापयितुमित्यर्थः, निर्ग्रन्थीनां दूरदेशगमने स्त्रीशरीरत्वात् संयमात्मविराधनादि बहुदोष संभवादिति ॥ सू० १३ ॥
पूर्वं निर्ग्रन्थनिर्ग्रन्थीनां व्यतिकृष्टाऽधिकरणक्षमापनविधिः प्रदर्शितः, सम्प्रति निर्ग्रन्थमधिकृत्य व्यतिकृष्टकाले स्वाध्यायनिषेधमाह – 'नो कप्पर निग्गंथाणं' इत्यादि ।
सूत्रम्-नो कप्पर णिग्गंथागं विइगिट्ठे काले सज्झायं करिए ॥ सू० १४ ॥ छाया - नो कल्पते निर्ग्रन्थानां व्यतिकृष्टे काले स्वाध्यायं कर्त्तुम् ॥ स्० १४ ॥ भाष्यम् – नो कप्पइ' नो कल्पते 'णिग्गंथाणं' निर्ग्रन्थानाम् 'विइगिट्ठे काले' व्यतिकृष्टे काले - विकृते विपरीते काले अस्वाध्यायकाले यस्य स्वाध्यायस्य यः कालविशेषो निर्णीतः शास्त्रे तदतिरिक्ते काले, विकृतकालो द्विविधः - कालिक उत्कालिकश्चेति । तत्र कालिकः प्रथमपौरुष्या अनन्तरं चतुर्थपौरुषीतः पूर्वो यः कालः सः । विकृतोत्कालिकः - सूर्योदय सूर्यास्तयोः सन्धिकालः अर्द्धरात्रिश्चेति । एवम्भूते विकृते काले 'सज्झायं' स्वाध्यायम् - आचाराङ्ग निशीथसूत्रप्रभृतीनां मूलपाठस्याऽध्ययनम् 'करितए वा' कर्तुम् ॥ सू० १४ ॥
निर्ग्रन्थीनां व्यतिकृष्टे काले स्वाध्यायं कर्त्तुं कल्पते इति तद्विधिमाह - ' कप्पड़ णिग्गंथीणं' इत्यादि ।
सूत्रम् - कप्पर णिग्गंथीणं विइगिट्ठे काले सज्झायं करित णिग्गंथनिस्साए ॥१५॥ छाया -कल्पते निर्मन्थीनां व्यतिकृष्टे काले स्वाध्यायं कर्त्तु निग्रन्थनिश्रया ॥ १५॥
भाष्यम्--‘कप्पइ’ कल्पते 'णिग्गंथीण' निर्ग्रन्थीनाम् 'विइगिट्टे काले' व्यतिकृष्टे काले-विकालेऽपीत्यर्थः 'सज्झायं करित्तए' स्वाध्यायं आचाराङ्ग - निशीथसूत्राणामध्ययनं कर्तुम् ।
ननु पूर्वसूत्रे व्यतिकृष्टकाले निर्ग्रन्थानां स्वाध्यायस्य निषेधः कृतः, प्रकृतसूत्रेण श्रमण्याः कृते स्वाध्यायस्य विधानं क्रियते अस्वाध्यायकालस्तु सर्वेषां समान एव भवतीति न्यायस्य समानत्वात् कथमस्वाध्यायकाले निर्ग्रन्थीनां स्वाध्यायस्य विधानं कृतम् ? तत्राह -- कारणिकमिदं सूत्रम्, यथां काचिन्नवदीक्षिता सूत्रावृतिं करोति स्त्रीस्वभावत्वाद् विस्मरणशीला च सा, संप्रति स्वाध्यायाकरणेऽस्याः सूत्रं विस्मृतं भविष्यतीत्यादिकारणमादाय निर्ग्रन्थ आज्ञां ददाति तदा तदाज्ञया तस्याः कृते व्यतिकृष्ट कालेऽपि स्वाध्यायस्य विधानं कृतमिति नात्र दोषापत्तिरत आह- ' णिग्गंथ ० ' इत्यादि, 'णिग्गंथनिस्साए' निर्ग्रन्थनिश्रया - श्रमणस्याज्ञया श्रमण्या सूर्योदय सूर्यास्तसन्धिकालार्द्धरात्ररूपास्वाध्यायेऽपि काले स्वाध्यायः कल्पते, निषेधोऽत्र स्वातन्त्र्येण संयत्याः विकृतकाले स्वाध्याय - करणविषयको विज्ञेय इति ॥ सू० १५ ॥