________________
१७८
व्यवहार 'थंडिले' स्थण्डिले-एकान्तभूमिरूपे, कीदृशे ! इत्याह-'बहुफासुए' बहुप्रासुके-दीन्द्रियादिजीवविवर्जिते 'पडिलेहित्ता' तत्स्थण्डिलं प्रतिलेख्य-प्रत्युपेक्ष्य द्वीन्द्रियादिप्राणिवर्जितं सम्यगवलोक्य ततः ‘पमज्जित्ता' प्रमार्य-प्रमार्जनं कृत्वा तत्स्थानात् द्वीन्द्रियादिकं पृथक् कृत्वा, 'परिहवित्तए' परिस्थापयितुम् साधूनां साधर्मिकस्य मृतस्य संयतस्य शरीरं गृहस्था मा स्पृशन्तु इति बुद्धया द्वीन्द्रियादिजीवविवर्जितप्रदेशे प्रतिलेखनप्रमार्जनं कृत्वा तत् शरीरं परिष्ठापयितुं कल्पते इत्यर्थः । परिष्ठापनानन्तरम् 'अस्थि य इत्थ केइ साहम्मियसंतिए उवगरणजाए परिहरणारिहे' अस्ति चात्र किञ्चित् सावर्मिकसत्कमुपकरणजातं परिहरणार्हम् , अस्ति-विद्यते चात्र मृतसाधुशरीरसमीपे किञ्चित् साधर्मिकसंयतसबन्धि-उपकरणजातं भण्डोपकरणादिकं परिहरणाई-परिभोगार्हम् उपभोगयोग्यं भवेत्तदा 'कप्पइ से सागारकडं गहाय' कल्पते 'से' तस्य सागारकृतं गृहीत्वा, तत्र-सागारकृतं नाम नास्मना स्वीकरोति किन्तु आचार्यसम्बन्धि एतत् , आचार्य एव तस्य ज्ञायकः, एवमवग्रहपूर्वकं गृहीत्वाऽऽचार्याणां समर्पयेत् , आचार्यों यदि यस्मै कस्मैचिद्दद्यात् तदा सः 'मत्थएण वन्दामि तहति' इति बुवाणः आचार्यवचः स्वीकुर्यात् गृहीते सति 'दोच्चंपि ओग्गई अणुण्णवेत्ता' द्वितीयमपि वारम् अवग्रहम्-आज्ञां भण्डोपकरणाघुपभोगार्थमनुज्ञाप्य-गृहीत्वा 'परिहारं परिहरितए' परिहारं परिहर्तुम्-आचार्यानुज्ञापनानन्तरमुपभोगयोग्यं वस्तु आचार्यप्रदत्तमुपभोक्तुं कल्पते परिह मिति त्यागानुज्ञायां त्यक्तुं कल्पते, अन्यस्मै दातुं परिष्ठापयितुं वा कल्पते ।। सू० २१॥
सम्प्रति- उपाश्रयस्य अवक्रयविक्रयविषयमधिकृत्य शय्यातरविधि प्रदर्शयितुमाह'सागारिए' इत्यादि ।
सूत्रम्-सागारिए उवस्सयं वकएणं पउंजेज्जा, से य वक्कइयं वएज्जा इमम्मि य इमम्मि य ओवासे समणा णिग्गंथा परिवसंति से सागारिए परिहारिए, से य नो वएज्जा चक्कइए वएज्जा से सागारिए परिहारिए, दोवि ते वएज्जा दोवि सागारिया परिहारिया ॥ सू० २२ ॥
छाया-- सागारिकः उपाश्रयमवक्रयेण प्रयुञ्जीतः स चाऽवक्रयिकं वदेत्-अस्मिश्च अस्मिश्च अवकाशे श्रमणा निर्ग्रन्थाः परिवसन्ति, स सागारिकः परिहार्यः, स च नो वदेत् अवक्रयिको वदेत् स सागारिकः परिहार्यः, द्वावपि तौ वदेयाताम् द्वावपि सागारिको परिहाय्यौ ॥ सू० २२॥
भाष्यम्-'सागारिए' सागारिकः उपाश्रयस्वामी 'उवस्सयं' उपाश्रयम्-वसतिम् 'वक्कएणं' अवक्रयेण, कियत्कालमवक्रयेण-भादकप्रदानेन 'पञ्जेज्जा' प्रयुञ्जीत-व्यापारयेत् ,