SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ૬૮ व्यवहारसूत्रे प्रत्यक्षं साम्भोगिकं विसाम्भोगिकं करोमि, स च प्रतितपेत् एवं तस्य नो कल्पते प्रत्यक्ष प्रत्येकं साम्भोगिकं विसाम्भोगिकं कर्तुम्, स च नो प्रतितपेत् एवं तस्य कल्पते प्रत्यक्षं प्रत्येकं साम्भोगिकं विसाम्भोगिकं कर्तुम् ॥ सू० ४॥ भाष्यम् – 'जे णिग्गंथाय णिग्गंथीओ य' ये निर्ग्रन्थाश्च निर्ग्रन्थ्यश्च 'संभोइया सिया' सम्भोगिकाः द्वादशप्रकारक संभोगवन्तो भवेयुः, तेषां निर्ग्रन्थानां निर्ग्रन्थीनां द्वयानां मध्ये निर्ग्रन्थानां निर्ग्रन्थपदस्य पूर्वं प्रयुक्तत्वात्, 'नो हूं कप्पर परोक्खं' अत्र 'ई' शब्दो वाक्याsलङ्कारे नो कल्पते खलु परोक्षे अनुपस्थितौ यदा स उपस्थितो न भवेत्तदेत्यर्थः 'पाडि एक्कं ' प्रत्येकम्, अत्र निर्ग्रन्थमुद्दिश्य सूत्रप्रवृत्तेः कमपि निर्ग्रन्थम् 'संभोइयं विसंभोइयं करेत्तए' साम्भोगिकं -सम्भोगयोग्यमपि श्रमणं विसाम्भोगिकं - भक्तपानादिसम्भोगरहितं कर्त्तुं न कल्पते इति पूर्वेणान्वयः । तर्हि कथं कल्पते ! तत्राह – यदि विसम्भोगविषयं किमपि कारणमुत्पद्यते तदा - ' कप्पड़ पं पच्चक्खं पाडिएक्कं संभोइयं विसंभोइयं करित्तए' कल्पते खलु प्रत्यक्षं तदुपस्थितौ तत्संस्खमित्यर्थः प्रत्येकं निर्ग्रन्थ-निर्ग्रन्थी-साम्भोगिकेति त्रयाणां मध्ये एकैकस्य साम्भोगिकं विसाम्भोगिकं कर्त्तुम् । कया रीत्या कल्पते ? तत्राह – ' जत्थेव ' इत्यादि, ' जत्थेव अन्नमन्नं पासेज्जा' यत्रैव स्थलविशेषेऽन्य एकः, अन्यमपरं पश्येत् 'तत्थेव एवं वएज्जा' तत्रैव स्थले एवं वक्ष्यमाणप्रकारेण वदेत्-कथयेत्, किं वदेत् तत्राह - ' अहं णं अज्जो ' अहं खलु हे आर्य ! 'तुमाए सद्धिं इममि कारणंमि पच्चक्खं संभोइयं विसंभोइयं करेमि अद्यानन्तरं त्वया सार्द्धम् अस्मिन् कारणे- अतिचारादिकारणे- अतिचारादिकारणविशेषमासाद्य 'पच्चक्खं' प्रत्यक्ष त्वत्संमुखमेव 'संभोइयं विसंभोइयं करेमि' साम्भोगिकं त्वां विसाम्भोगिकं - संभोगरहितं करोमि अतिचारादिकारणविशेषमासाद्य त्वया सहाऽऽहारादिव्यवहारं पृथक्करोमीत्यर्थः । ' से य पडितप्पेज्जा' कारणे कथिते सति स श्रोता साम्भोगिकः श्रमणो यदि परितपेत् परितापं कुर्यात् यथा 'मया नेदं सुष्ठु कृतं येनेदानीं परित्यक्तो भवामि, नाद्य प्रभृति एवं करिष्यामि, कृतस्य चाऽशुभकर्मणो मिथ्यादुष्कृतं ददामि न पुनरेतादृशं दुष्टं कर्म करिष्यामी' - ति पश्चात्तापं कुर्यादिति भावः ' एवं से नो कप्पड़ पच्चक्खं पाडि एक्कं संभोइयं विसंभोइयं करित्तए' एवं - मिथ्यादुष्कृतादिदाने 'से' तस्य विसां भोगिकं कर्त्तुं प्रवृत्तस्य न कल्पते प्रत्यक्षं प्रत्येकं त्रयाणां मध्ये एकैकस्य साम्भोगिकं विसाम्भोगिकं कर्त्तुम् । यदि प्रतिपन्नपापस्थानः श्रमणः पश्चात्तापं कुर्यात् मिथ्यादुष्कृतं दद्यात् प्रायश्चित्तं च स्वीकुर्यात् तदा साम्भोगिकं विसाम्भोगिकं कर्त्तुं न कल्पते श्रमणानां श्रमणीनां वेति भावः । यदि प्रत्यक्षं पूर्वोक्तप्रकारेण कथितेऽपि 'से य नो पडितप्पेज्जा' स च यदि नो परितपेत्यदि कदाचित् कृतकर्मणो निमित्तं पश्चात्तापं पूर्वोक्तरूपेण न कुर्यात्, स्वकृतातिचारस्याssलोचनया प्रतिक्रमणेन तदुभाभ्याम्, व्युत्सर्गेण तपसा एवं प्रकारेण यावत् पाराश्चितेन प्रायश्चित्तेन विशोधि नं कुर्यात् एवं से कप्पड़ पच्चक्खं पाडिएक्कं संभोइयं विसंभोइयं करितए' एवं तदा ' से ' तस्य विसाम्भोगिककर्तुः कल्पते प्रत्यक्षं प्रत्येकं साम्भोगिकं विसाम्भोगिकं कर्त्तुमिति ॥ सू० ४ ॥
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy