________________
मायम् ७० ७ सू०४
साम्भोगिकस्य विसाम्भोगिककरणे विधिः १६७ उद्देष्टुमनुज्ञातुं वा, 'धारित्तए वा' धारयितुं वा-तस्याः प्रवर्तिनीपदं दातुं कल्पते '
तंच णिग्गंधीओ नो इच्छेज्जा' तां च निम्रन्थ्यो नेच्छेयुः, यदि कदाचित् श्रमणेन प्रायश्चित्तदानादिना कृतशुद्धामपि अन्यगणादागतां तां श्रमणीं ताः साम्भोगिका निर्ग्रन्थ्यः अनापृच्छादिकारणवशात् स्वगणे स्थापयितुं नेच्छेयुः तदा 'सेवमेव नियं ठाणं' सेवेत एव निजं स्थानम् , तत्र स्थानमलभमाना सा स्वकीय यत्स्थानं-स्वकीयगच्छरूपं, तदेव सेवेत तत्रैव पुनः परावृत्त्य गच्छेदिति भावः । तासां तस्याः निर्ग्रन्थ्याः स्वसमीपे आश्रयादाने इमानि कारणानि संभवन्ति-प्रथमं तु कारणं निम्रन्थीरनापृच्छय तस्याः शुद्धिः कृतेति नेच्छेयुः, पुनश्च यस्याः सा शिष्या तया सह तासां मैत्री ततस्तस्या अत्र रक्षणे अस्याः प्रवर्तिनी गुरुर्वा अस्माकमुपरि कोपं करिष्यतीति मत्वा तां नेच्छेयुः, अथवा सा कर्मानुभावेन स्वभावतः प्रायः सर्वजनस्याऽपि द्वेष्येति तां नेच्छेयुः । यदि वा पूर्व भावानुभावतः प्रवर्त्तिन्या अप्रियेति, अथवा सा प्रवर्तिनी शुद्धिकर्त्तणां साम्भोगिकानां विषये केनापि कारणेन परम्परातः कुपिता वर्तते । यदि वा गच्छस्योपरि कुपिता वर्त्तते, अथवा संयत्या यो निम्रन्थीसमुदायस्तस्य तद्विषये प्रवर्त्तिन्याः प्रतिस्पर्धा भवेत्-यदियं न कस्या अपि शिष्या कर्त्तव्येति, अथवा ताः सर्वा अपि संयत्यः शृङ्खलाबद्धाः परस्परं गृहावस्थासम्बन्धिन्यस्ततः 'नूतनैषाऽस्माकमपमानं करिष्यति, नास्माकं यादृच्छिकमाहारविहारादिकं भविप्यति' इस्यादिकारणैर्यदि तामुद्यतामपि नेच्छेयुस्तदा स्वगच्छे एव तया प्रसन्नचेतसा प्रत्यावर्तितव्यं तदेव तस्याः श्रेय इति । उपलक्षणादिदं सूत्रत्रयं निम्रन्थविषयेऽपि अनुसन्धातव्यम् ॥ सू० ३॥
पूर्वमन्यगणादागतां निर्ग्रन्थीम् आलोचनादिना विशोध्य तया सह सम्भोगः कल्पते इति प्रतिपादितम् . साम्प्रतम् निर्ग्रन्थानुसन्धानात् साम्भोगिकनिम्रन्थस्यासाम्भोगिककरणे विधि प्रदर्शयन्नाह-'जे णिग्गंथा य' इत्यादि।
सूत्रम्--जे णिग्गंथा य णिग्गंधीओ य संभोइया सिया, नो ण्हं कप्पइ परोक्खं पाडिएक्कं संभोइयं विसंभोइयं करित्तए, कप्पइ ण्हं पचक्खं पाडिएक्कं संभोइयं विसंभोइयं करित्तए, जत्थेव अन्नमन्नं पासेज्जा तत्थेव एवं वएज्जा-अहं णं अज्जो ! तुमाए सद्धिं इमंमि कारणंमि पच्चक्खं संभोइयं विसंभोइयं करेमि । से य पडितप्पेज्जा एवं से नो कप्पइ पच्चक्खं पाडिएक्कं संभोइयं विसंभोइयं करित्तए, से य नो पडितप्पेज्जा एवं से कप्पइ पच्चक्खं पाडिएक्कं संभोइयं विसंभोइयं करित्तए ॥ सू० ४ ॥
छाया-ये निर्ग्रन्थाश्च निर्ग्रन्थ्यश्च साम्भोगिकाः स्युः, नो खलु कल्पते परोक्षे प्रत्येकं साम्भोगिकं विसाम्भोगिकं कर्तुम् । कल्पते खलु प्रत्यक्षप्रत्येकं सांभोगिकं विसाम्भोगिकं कतम् । यत्रैवाऽन्योऽन्यं पश्येत् तत्रैव एवं वदेत्-अहं खलु आर्य! त्वया सार्चमस्मिन् कारणे