SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे __ पूर्व निर्ग्रन्थीमधिकृत्यान्यगणादागतक्षताचारादिदोषवत्याः स्वगणे स्थापने विधिरुक्तः, सम्प्रति निम्रन्थमधिकृत्य तद्विधिमाह--'जे णिग्गंथा य' इत्यादि । सूत्रम्-जे णिग्गंथा यणिग्गंधीओ य संभोइया सिया, कप्पइ णिग्गंथाणं णिग्गथीओ आपुच्छित्ता वा अणापुच्छित्ता वा णिग्गंथि अन्नगणाओ आगयं खुयायारं सबलायारं भिन्नायारं संकिलिट्ठायारचरितं तस्स ठाणस्स आलोयावेत्ता जाव अहारिहं पायच्छित्तं तवोकम्म पडिवज्जावेत्ता पुच्छित्तए वा वाएत्तए वा उवट्ठावेत्तए वा संजित्तए वा संवसित्तए वा, तीसे इत्तरियं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारित्तए वा, तं च णिग्गंथीओ नो इच्छेज्जा सेवमेव नियं ठाणं ॥ सू० ३ ॥ _ छाया-ये निम्रन्थाश्च निर्ग्रन्थ्यश्च साम्भोगिकाः स्युः, कल्पते निर्ग्रन्थानां निर्ग्रन्थीः आपृच्छय वा अनापृच्छय वा निम्रन्थीमन्यगणादागतां क्षताचारां शबलाचारां भिन्नाचारां संक्लिष्टाचारचरित्रां तस्य स्थानस्याऽऽलोच्य यावत् यथार्ह प्रायश्चित्तं तपःकर्म प्रतिपाद्य प्रष्टुवा वाचयितुं वा उपस्थापयितुं वा संभोक्तुं वा संवस्तुं वा, तस्या इत्वरिकां दिशं वा अनुदिशं वा उद्देष्टुवा धारयितुं वा, तां च निर्ग्रन्थ्यो नो इच्छेयुः सेवेत एव निजं स्थानम् ॥ सू०३॥ भाष्यम्--'जे णिग्गंथा य णिग्गंथीओ य संभोइया सिया' ये निम्रन्थाश्च निर्ग्रन्थ्यश्च द्वयेऽपि साम्भोगिका एकस्मिन् प्रामादौ स्युः, तत्र 'कप्पइ णिग्गंथाणं' कल्पते निम्रन्थानाम् 'णिग्गंधीओ आपुच्छित्ता वा अणापुच्छित्ता वा' निर्ग्रन्थीः श्रमणोः आपृच्छय वा अनापृच्छ्य वा, निम्रन्थीः पृच्छेयुर्न वेति स्वेच्छा श्रमणानाम् 'णिग्गंथिं अन्नगणाओ आगयं' निर्ग्रन्थीमन्यगणादागताम् 'खुयायारं' क्षताचाराम् 'सबलायारं' शबलाचाराम् 'भिन्नायारं' भिन्नाचाराम् 'संकिलिछायारचरित' संक्लिष्टाचारचरित्राम् , व्याख्या पूर्ववत् 'तस्स ठाणस्स' तस्य स्थानस्य यादृशप्रतिसेवनाजनितेन मलिना जाता तस्य पापस्थानस्य 'आलोयावेत्ता' आलोच्यआलोचना कारयित्वा 'जाव' यावत् यावत्पदेन प्रतिक्राम्यादिपदानां संग्रहोऽर्थश्च पूर्ववदेव 'अहारिहं पायच्छित्तं तवोकम्मं पडिवज्जावेत्ता' यथाहं तस्य पापस्थानस्य यथायोग्य प्रायश्चित्तं तपःकर्म प्रतिपाद्य, तदनन्तरम्-'पुच्छित्तए वा' प्रष्टुं वा सुखशातादिकं प्रष्टुं कल्पते 'वाएत्तए वा' वाचयितुं वा-सूत्रादिवाचनां दातुं वा, 'उपहावेत्तए वा' उपस्थापयितुं वा-महाव्रतेषु समारोपयितुं वा, 'संभुंजित्तए वा' संभोक्तुं वा-एकमण्डले भोजनादिव्यवहारं श्रमणीभिः सह कारयितुमित्यर्थः, 'संवसित्तए वा' संवस्तुं वा एकत्र श्रमणीभिः सह निवासं कारयितुमित्यर्थः कल्पते, 'तीसे इत्तरियं दिसं वा' तस्याः कृतप्रायश्चित्तायाः श्रमण्याः इत्वरिकाम्-अल्पकालिकी दिशम् प्रवर्तिन्यादिपदवीम् 'अणुदिसं वा' यावत्कथिकां प्रवर्त्तिन्यादिपदवीम् 'उदिसित्तए वा'
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy