SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ७ सू० २-३ अन्यगणागतनिग्रन्थीग्रहणविधिः १६५ पूर्वमन्यगणादागताया अनालोचितपापस्थानायाः साम्भोगिक निर्ग्रन्थाज्ञामन्तरेण सुखशाताप्रच्छनादि निर्ग्रन्थीनां न कल्पते इति प्रोक्तम्, सम्प्रति तद्विपर्यये सूत्रमाह - 'जे णिगंथा य णिग्गंथोओ य' इत्यादि । सूत्रम् - जे णिग्गंथा य णिग्गंथीओ य संभोइया सिया कप्पर णिग्गंथीणं णिग्गंथे आपुच्छित्ता णिग्गंथिं अन्नगणाओ आगयं खुयायारं सबलायारं भिन्नायारं संकिलिट्ठायारचरितं तस्स ठाणस्स आलोयावेत्ता जाव अहारिहं पायच्छित्तं तवोकम्मं पडिवज्जावेत्ता पुच्छित्तए वा वाएत्तए वा उवद्यावेत्तए वा संभुंजित्तए वा संवसित्तए वा, तीसे इत्तरियं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारितए वा ।। सू० २ ॥ छाया - ये निर्ग्रन्थारच निर्ग्रन्थ्यश्च सांभोगिकाः स्युः कल्पते निर्ग्रन्थीनां निर्यन्थानाऽऽपृच्छय निर्ग्रन्थीमन्यगणादागतां क्षताचारां शबलाचारां भिन्नाचारां संक्लिष्टाचारचरित्रां तस्य स्थानस्याऽऽलोच्य यावद् यथार्ह प्रायश्चित्तं तपःकर्म प्रतिपाद्य प्रष्टुं वा वाचयितुं वा उपस्थापयितुं वा संभोक्तुं वा संवस्तु वा तस्या इत्वरिकां दिशं वा अनुदिशं वा उद्देष्टुं वा धारयितुं वा ॥ सू० २ ॥ भाष्यम् – जेणिग्गंथाय' ये निर्ग्रन्थाश्च श्रमणाः, 'णिग्गंथीओ य' निर्ग्रन्ध्यः श्रमण्यश्च 'संभोइया सिया' साम्भोगिकाः स्युः तन्मध्यात् 'कप्पड़' कल्पते 'णिगंथीणं' निर्ग्रन्थीनां श्रमणी - नाम् 'णिग्गंथे आपुच्छित्ता' निर्ग्रन्थान् साम्भोगिकाचार्यान् आपृच्छय -- पृष्ट्वा तदाज्ञामादायेत्यर्थः, किमित्याह - 'णिग्गंथिं' इत्यादि, 'णिग्गंथिं अन्नगणाओ आगयं' निर्ग्रन्थीमन्यगणात्- गच्छान्तरात् आगताम् 'खुयायारं ' क्षताचाराम् शबलाचाराम् भिन्नाचाराम् संक्लिष्टाचारचरित्रामित्येषां पदानां व्याख्या षष्ठोद्देशकस्य चतुर्विंशतितमसूत्रे विलोकनीयेति, 'तस्स ठाणस्स' तस्य स्थानापराधस्थानस्य संसेवनेन क्षताचारादिका जाता तस्यापराधस्थानस्य 'आलोयावेत्ता' आलोच्य - आलोचनां कारयित्वा 'जाव' यावत्, अत्र यावत्पदेन 'पडिक्कमावेत्ता निंदावेत्ता गरि वेत्ता विट्टावेत्ता विसोहावेत्ता अकरणाए अन्भुट्ठावेत्ता' एतेषां पदानां संग्रहः, व्याख्या च षष्ठोद्देशकस्य चतुर्विंशतितमे सूत्रेऽवलोकनीयेति, 'अहारिहं पायच्छित्तं तवोकम्मं पडिवज्जावेत्ता' तस्य पापस्थानस्य यथार्ह-यथायोग्यं प्रायश्चित्तं तपःकर्म प्रतिपाद्य पापस्थानोचितं प्रायश्चिरूपेण तपो दत्त्वेत्यर्थः, तदनेन क्रमेण तपःकर्मणा सम्यक् तां विशुद्धीकृत्य ततः पश्चात् 'पुच्छित्तए वा ' सुखशातादि प्रष्टुं वा, 'वात्तए वा' वाचयितुं वा वाचनां दातुं वा 'उवडावेत्तए वा' उपस्थापयितुं वा पुनर्महाव्रतेषु समारोपयितुं वा, ‘संभुंजित्तए वा' संभोक्तुं वा तया सह एकमण्डल्यामाहारादिकं कर्त्तुं वा ‘संवसित्तए वा' संवस्तुं वा एकत्र मिलित्वा वासं कर्तुं वा 'ती से इत्तरियं दिसं वा' तस्या उपयुक्तप्रकारेण प्रायश्चित्तादिना विशुद्धायाः कृते इत्वरिकाम् अल्पकालिकीं प्रवर्त्तिन्यादिपदवीम्, 'अणुदिसं वा' अनुदिशं वा यावज्जीवन कालिकों प्रवर्त्तिन्यादिपदवीं वा 'उद्दिसित्तए वा' उद्देष्टुं वा अनुज्ञातुं वा, 'धारितए वा' धारयितुं वा - तादृशपदव्याः धारणं कारयितुं वा कल्पते ॥ सू० २ ॥
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy