SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १६४ व्यवहारसूत्रे छाया ये निर्ग्रन्थाश्च निर्ग्रन्थ्यश्च साम्भोगिकाः स्युः नो कल्पते निर्ग्रन्थीनां निम्रन्थाननापृच्छय निर्ग्रन्थीमन्यगणादागतां क्षताचारां शबलाचारां भिन्नाचारां संक्लिष्टाचार. चरित्रां तस्य स्थानस्य अनालोच्य यावद् यथार्ह प्रायश्चित्तं तपःकर्म अप्रतिपाद्य प्रष्टुं वा वाचयितुं वा उपस्थापयितुं वा संभोक्तुं वा संवस्तुं वा, तस्या इत्वरिकां दिशं वा अनुदिशं वा उद्देष्टुं वा धारियतुं वा ॥ सू० १ ॥ __ भाष्यम्- 'जे णिग्गंथा य णिग्गंधीओ य' ये निर्ग्रन्थाः श्रमणाः तथा निम्रन्थ्यः श्रमज्यश्च, 'संभोइया सिया' साम्भोगिकाः स्युः द्वादशप्रकारकसम्भोगयुक्ता एकत्र प्रामादिषु भवेयु:तिष्ठेयुः, उपलक्षणात् कल्पानुसारेण सार्द्धक्रोशद्वयपरिमिते दूरेऽपि वा तिष्ठेयुः, तेषां मध्ये 'नो कप्पइ णिग्गंथीणं णिग्गंथे अणापुच्छित्ता' नो न कथमपि कल्पते निम्रन्थीनां निम्रन्थान् साम्भोगिकान् आचार्यादिकान् अनापृछ्य तेषामाज्ञामन्तरेणेत्यर्थः । किं न कल्पते ! तत्राह-णिग्गंथि' इत्यादि, 'णिग्गंथि अन्नगणाओ आगय' निग्रन्थों श्रमणीमन्यगणाद् -अन्यगच्छाद् आगतां - समागताम्, कथम्भूतामन्यगणादागतां श्रमणीम् ? तत्राह-'खुयायारं' इत्यादि, 'खुयायारं' क्षताचाराम् शबलाचाराम् भिन्नाचाराम् संक्लिष्टाचारचरित्राम्, एषां पदानां व्याख्या षष्ठोदेशके त्रयो. विंशतितमसूत्रे गता, एतादृशक्षताचारादिविशेषणयुक्तामन्यगणादागतां श्रमणीम् , 'तस्स ठाणस्स अणालोयावेत्ता' तस्य पापस्थानस्यानालोच्य येनापराधेन सा मलिना जाता तादृशापराधस्थानस्य मालोचनामकारयित्वा तत्पापस्थानमप्रकटयित्वेत्यर्थः जाव अहारिहं पायच्छित्तं तवोकम्मं अपडिवज्जावेत्ता' यावद् यथार्ह प्रायश्चित्तं तपःकर्म अप्रतिपाद्य-अदत्त्वा, अत्र यावत्पदेन 'अपडिक्कमावेत्ता अनिंदावेत्ता अगरिहावेत्ता अविउद्यावेत्ता अविसोहावेत्ता अकरणाए अणब्भुटावेत्ता' इत्येतेषां विशेषणानां सङ्ग्रहो भवति, एषां पदानामपि व्याख्या षष्ठोद्देशकस्य त्रयोविंशतितमे सूत्रे गता, येन पापस्थानेन सा दूषिता तादृशपापस्थानस्य प्रतिक्रमणादिकमकारयित्वेत्यर्थः, यथार्ह-यथायोग्यं शास्त्रोक्तं प्रायश्चित्तं तपःकर्म अप्रतिपाद्य तस्य पापस्थानस्य यथायोग्यं प्रायश्चित्तरूपेण तपःकर्माsदत्त्वेत्यर्थः 'पुच्छित्तए वा वाएत्तए वा' प्रष्टुं वा वाचयितुं वा, यदि पूर्वोक्तक्षताचारादियुक्ता अन्यगणात् काचित् श्रमणी समागच्छेत् तां गणनायकस्याऽऽज्ञामन्तरेण सुखशातादिकं प्रष्टुं न कल्पते, तथा तस्यै वाचनामपि दातुं न कल्पते श्रमणीनामित्यर्थः, तथा-'उवहावेत्तए वा' उपस्थापयितुं वा महावतेषु आरोपयितुं न कल्पते, तस्याश्छेदोपस्थापनीयचारित्रमपि न देयम् , 'संभुंजित्तए वा संवसित्तए वा' संभोक्तुं वा संवस्तुं वा एतादृशपूर्वोक्तदूषणविशिष्टश्रमण्या सह एकमण्डल्यां नाऽऽहारादिव्यवहारः करणीयः, तथा तया सह एकस्मिन्नुपाश्रयादौ निवासोऽपि न करणीय इति, 'तीसे इत्तरियं दिसंवा अणुदिसं वा उद्दिसित्तए वा धारित्तए वा' तस्याः इत्वरिकां दिशं वा अनुदिशं वा उद्देष्टुं वा धारयितुं वा, एतादृशदोषोपेतायै श्रमण्यै इत्वरिकां दिशम् अल्पकालिकी प्रवर्त्तिन्यादिपदवीम् , अनुदिशम् यावज्जीवनकालिकी वा पदवीम् , उद्दष्टुम्-अनुज्ञातुम् धारयितुं पदवी दातुं वा न कल्पते ॥ सू० १ ॥
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy