________________
॥ अथ सप्तमोद्देशकः ॥
गतः षष्ठ उद्देशः, साम्प्रतं सप्तमो व्याख्यायते, पूर्वोद्देशेनास्य कः सम्बन्धस्तत्राह गोथद्वयं भाष्यकारः-‘सामन्नओ' इत्यादि ।
गाथा -- सामन्नओ दुयाणं, णिम्गंथी आगया आलोयणं कराविय, कप्पर तीए य
खुयायारा । संभोगो ॥ १ ॥
इइ बुत्तं पुब्वं इह, निग्गंथीए न कप्पए एवं | निग्गंथमणापुच्छिय, संबंधो एत्थ विन्नेओ ॥ २ ॥
छाया - सामान्यतो द्वयानां, निर्ग्रन्थी आगता क्षताचारा । आलोचनां कारयित्वा, कल्पते तया च संभोगः ॥ १ ॥
इत्युक्त पूर्वमिह निर्ग्रन्थया न कल्पते एवम् | निर्मन्थमनापृच्छय, सम्बन्ध विज्ञेयः ॥ २ ॥
व्याख्या—सामान्यतः समुच्चयेन द्वयानां निर्ग्रन्थानां निर्ग्रन्थीनां च या काचिद् निर्ग्रन्थी आगता - अन्यगणात् समागता कीदृशीत्याह - 'खुयायारा' क्षताचारा उपलक्षणात् शबलाचारादिविशेषणविशिष्टा भवेत्तदा 'आलोयणं कराविय' आलोचनाम् उपलक्षणात् प्रतिक्रमणादिकं कारयित्वा कल्पते तया सह संभोगो नान्यथेति ॥ १ ॥
'इइ वृत्तं ' इत्यादि, इति एवं प्रकारेण पूर्वं षष्ठोद्देशकस्य चरमसूत्रे उक्तम्, इहअस्मिन् सप्तमोद्देशकस्यादिसूत्रे निर्ग्रन्ध्याः केवलं निर्ग्रन्ध्याः निर्ग्रन्थम्, अत्र जातावेकवचनं तेन निर्ग्रन्थान् साम्भोगकान् आचार्यादिकान् अनापृच्छय अपृष्ट्वा एवम् पूर्वोक्तप्रकारेण अनालोचित - पापस्थानया निर्ग्रन्ध्या सह संभोगः कर्त्तुं न कल्पते, स यथा आदिशेत् तथा कुर्यादिति भावः, एषोऽत्र सम्बन्धो विज्ञेय इति ॥ २ ॥
अनेन सम्बन्धेनायातस्यास्य सप्तमोद्देशकस्य इदमादिमं सूत्रम् - "जे णिग्गंथा य इत्यादि ।
सूत्रम् - जे णिग्गंथा य णिग्गंथीओ य संभोइया सिया नो कप्पs णिग्गंथीणं णिग्गंथे अणापुच्छित्ता णिग्गंथिं अन्नगणाओ आगयं खुयायारं सबलायारं भिन्नायारं संकि लिहायारचरितं तस्स ठाणस्स अणालोयावेत्ता जाव अहारिहं पायच्छित्तं तवोकम्म अपडिवज्जावेत्ता पुच्छित्तए वा वाएत्तए वा उवद्वावेत्तए वा संभुंजित्तए वा संबसितए वा, तीसे इत्तरियं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारितए वा ॥ सू० १ ॥