________________
'तीसे इत्तरियं दिसं वा' तस्याः प्रायश्चित्तदानेन विशुद्धाया निम्रन्ध्याः इत्वरिकां दिशम्अल्पकालिकी पदवीम् 'अणुदिसं वा' अनुदिशं वा-यावत्कालिकी प्रवर्त्तिन्यादिपदवीं वा 'उद्दिसित्तए वा' उद्देष्टुमनुज्ञातुं वा 'धारित्तए वा' धारयितुं वा दातुं वा कल्पते इति । अनेन-निर्ग्रन्थीकथितप्रकारेण निर्थन्थस्य अन्यगणादागतस्य क्षताचारादिमतोऽपि विधिर्ज्ञातव्यः ॥ सू० २४ ॥
इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनाचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालबति-विरचितायां "व्यवहारसूत्रस्य"
भाष्यरूपायां व्याख्यायां षष्ठ उद्देशकः समाप्तः ॥६॥