SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ awww भाष्यम् उ० ६ ० २४ अन्यगणागतनिर्ग्रन्थीग्रहणविधिः १६१ पूर्व क्षताचारादिविशेषणविशिष्टाया निम्रन्थ्याः सहवासो निषिद्धः, साम्प्रतं तद्विपर्यये सूत्रमाह-कप्पइ' इत्यादि । सूत्रम्-कप्पइ णिग्गंथाण वा णिगंथीण वा णिग्गंथि अन्नगणाओ आगयं खुयायारं सबलायारं भिन्नायारं संकिलिट्ठायारचरित्तं तस्स ठाणस्स आलोयावेत्ता पडिक्कमावेत्ता निंदावेत्ता गरिहावेत्ता विउट्टावेत्ता विसोहावेत्ता अकरणाए अन्भुटावेत्ता अहारिहं पायच्छित्तं तवोकम्म पडिवज्जावत्ता उवट्ठावेत्तए वा संभुंजित्तए वा संवसित्तए वा, तीसे इत्तरियं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारित्तए वा ।। सू० २४ ॥ ॥ व्यवहारे छट्टो उद्देसो समत्तो ॥६॥ छाया-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा निर्ग्रन्थीम् अन्यगणादागतां शताचारां शबलाचार भिन्नाचारां संक्लिष्टाचारचरित्रां तस्य स्थानस्याऽऽलोच्य प्रतिकाम्य निन्दयित्वा गर्हयित्वा विकटय, विशोध्य अकरणाय अभ्यत्थाप्य यथाई प्रायश्चित कर्म प्रतिपाद्य उपस्थापयितुं वा संभोक्तुं वा संवस्तुं वा, तस्या इत्वरिकां दिश वा अनुदिशं वा उदेष्टुं वा धारयितुं वा ॥ सू० २४॥ व्यवहारे षष्ठ उद्देशकः समाप्तः॥६॥ भाष्यम्-'कप्पई' कल्पते 'णिग्गंथाण वा णिग्गंथीण वा' निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'णिग्गंथि अन्नगणाओ आगयं' निर्ग्रन्थीं-श्रमणीम् अन्यगणात् -परकीयगच्छादागताम् 'खुयायारं' क्षताचाराम्-विनष्टाचारवतीम् , इत आरभ्य संक्लिष्टाचारचरित्रामितिपर्यन्तानां व्याख्या पूर्व सूत्रे गता, 'तस्स ठाणस्स आलोयावेत्ता' तस्य स्थानस्य यस्मिन् स्थाने प्रतिसेवनां कृतवती तस्ट पापस्थानस्य आलोच्य-अलोचनां कारयित्वा 'पडिक्कमावेत्ता' प्रतिक्राम्य-पापस्थानात् परावर्त्य 'निंदावेत्ता' निंदयित्वा-आत्मसाक्षिकी निन्दा कारयित्वा 'गरिहावेत्ता' गर्हयित्वा गुरुसाक्षिकी निन्दा कारयित्वा 'विउट्टावेत्ता' विकुट्य-चारित्रं निर्मलं कारयित्वा 'विसोहावेना' विशोध्य-पापन्य विशोधि कारयित्वा 'अकरणाए अब्भुटावेत्ता' अकरणाय भविष्यति पुनरकरणाय अभ्युत्थाप्य पुनर्न करिष्यामीति प्रतिज्ञाम् कारयित्वा 'अहारिहं पायच्छित्तं तवोकम्म' यथार्ह- यथायोग्यम् यस्य पापस्थानस्य यादृशं प्रायश्चित्तं शास्त्रे कथितम् तादृशं प्रायश्चित्तं तपःकर्म 'पडिवज्जावेत्ता' प्रतिपाद्य प्राप्य दत्त्वेत्यर्थः 'उवट्ठावेत्तए वा' उपस्थापयितुं वा-महाव्रतेषु पुनः स्थापयितुम् 'संभुंजित्तए वा' संभोक्तुं वा एकमण्डल्यामाहारादि कर्तुं वा 'संवसित्तए वा' संवस्तुं वा तया सह एकत्र वसतौ निवासं कर्तुं वा, तथा व्य. २०
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy