________________
१६०
व्यवहारसूत्रे
यथा प्राश्चित्तं तपःकर्म अप्रतिपाद्य उपस्थापयितुं वा संभोक्तुं वा संवस्तुं वा तस्या इत्वरिकां दिशं वा अनुदिशं वा उद्देष्टुं वा धारयितुं वा । सू० २३ ॥
भाष्यम् – 'नो कप्पड़' नो कल्पते णिग्गंथाण वा निग्गंथीण वा' निर्ग्रन्थानां श्रमणानां पुनश्च निर्ग्रन्थीनां श्रमणीनाम् 'णिग्गंथिं' निर्ग्रन्थीं - श्रमणीम् 'अन्नगणाओ आगयं' अन्यगणात् गणान्तराद् आगताम् पापस्थानसेवने प्रायश्चित्तग्रहणभयात् आगताम् कीदृशीमित्याह--'खुयायारं' क्षताचाराम्-क्षतो विनिष्ट आचारो - ज्ञानाद्याऽऽचारो यस्याः सा क्षताचारा ताम् । 'सबलायारं '' शबलाचाराम् शबलः- व - कर्बुर: दूषितः आचारो विनयादिरूपः साध्वाचारो यस्याः सा शबलाचारा दूषिताचारा ताम् । 'भिन्नायारं ' भिन्नाssचाराम् - भिन्नः - भेदमापन्न आचारो यस्याः सा भिन्नाचारा ताम् । 'संकिलिट्ठायारचरितं' संक्लिष्टाऽऽचारचारित्राम् संक्लिष्टं क्रोधादिना मलिनम् आचारविशिष्टं चारित्रं यस्याः सा तथा ताम्, पुनश्च तस्स ठाणस्स' तस्य स्थानस्य यस्मिन् स्थाने प्रतिसेविते सति क्षताचारादिविशिष्टा जाता तस्य स्थानस्य 'अणालोएत्ता वा ' अनालोच्य - तस्य पापस्थानस्याssलोचनामकारयित्वा 'अपडिक्कमावेत्ता' अप्रतिक्रम्य तस्मात्पापस्थानादपरावर्त्य 'अनिंदावेता' अनिन्दयित्वा तस्य पापस्थानस्याऽऽत्म साक्षिकीं निन्दामकारयित्वा 'अगरिहावेत्ता' अगर्हयित्वा - गुरुसाक्षिकीं गर्हामकारयित्वा 'अविउट्टावेत्ता' अविक्रुटच-अतिचारसम्बन्धमविच्छेद्य अतिचारात् पृथग् अकृत्त्वेत्यर्थः ' अविसोहावेता' अविशोध्य तस्य पापस्थानस्य शोधन मकारयित्वा 'अकरणाए अणभुट्टावेत्ता' तस्य पापस्थानस्य पुनरकरणाय अभ्युत्थाप्य 'अहारिहं पायच्छित्तं तवोकम्मं अपडिवज्जावेत्ता' यथाहै - यथायोग्यं प्रायश्चित्तं तपःकर्म अप्रतिपाद्य - अस्वीकार्य तां निर्ग्रन्थीम् 'उवद्वावेत्तए वा' पुनर्महाव्रतेषु उपस्थापयितुम्, 'संभुंजित्तए वा' संभोक्तुं वा तया अकृतप्रायश्चित्तया सह एकमण्डले आहारादि कर्त्तुम्, 'संवसित्तए वा' संवस्तुं वा तया सह वसतौ स्थातुं वा, पुनश्च - 'तीसे' तस्याः 'इतरियं दिसं वा' इत्वरिकां दिशं वा अल्पकालिकीं प्रवर्तिन्यादिपदवीम् 'अणुदिसं वा' अनुदिशं वा यावज्जीविकां वा प्रवर्त्तिन्यादिपदवीम् 'उद्दिसित्तए वा' उद्देष्टुं दातुं न कल्पते एवम् ' धारितए वा' धारयितुं वा तस्याः स्वस्याः पदवीं धर्तुं वा न कल्पते, पूर्वोक्तविशेषणविशिष्टया निर्ग्रन्थया सह किमपि प्रकारकं परिचयजातं निर्ग्रन्ध्या निर्ग्रन्थस्य न कल्पते, यथा कुथितनागवल्लीदल संपर्केण अकुथितान्यपि दलानि कुथितानि जायन्ते तथैव क्षताचारादिविशेषणविशिष्टाया निर्ग्रन्ध्याः सहवासादन्या अपि निर्ग्रन्थ्यस्तादृश्यो भवन्ति । अत्राशङ्कते कोsपि - ' पमायर हिया जा उ सा कहं सबला भवे' प्रमादरहिता या तु सा कथं शबला भवेत् ? उत्तरमाह-'संबासमा इदोसेणाऽसबला सबला भवे' संवासादिदोषेण अशबला शबला भवेत्, इति ॥ १ ॥ तस्मात्तादृश्या निर्ग्रन्थ्याः सहवासो वर्जनीय इति । एवं पूर्वोक्तविशेषण- विशिष्टस्य निर्ग्रन्थस्य विषयेऽपि सूत्रमनुसंधातव्यमिति ॥ स्रु० २३ ॥