SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Manoramanar भाष्यम् उ० ७ सू० ५ साम्भोगिकस्याऽसाम्भोगिककरणे विधिः १६९ पूर्व निर्ग्रन्थमधिकृत्य सांभोगिकस्य प्रत्यक्षं तत्संमुखं विसांभोगिककरणे विधिरुक्तः, सम्प्रति निर्ग्रन्थीमुद्दिश्य सांभोगिकायाः परोक्षम्-तस्या अनुपस्थितौ विसांभोगिककरणे विधिमाह-'जाओ णिग्गंथीओ वा' इत्यादि । सूत्रम्--जाओ णिग्गंधीओ वा णिग्गंथा वा संभोइया सिया, नो हं कप्पइ पच्चक्खं पाडिएक्कं संभोइयं विसंभोइयं करित्तए, कप्पइ ण्हं पारोक्खं, पाडिएक्कं संभोइयं विसंभोइयं करित्तए, जत्थेव ताओ अप्पणो आयरियउवज्झाए पासेज्जा तत्थेव एवं वएज्जाअहं णं भंते ! अमुगीए अज्जाए सद्धिं इममि कारणंमि पारोक्खं पाडिएक्कं संभोइयं विसंभोइयं करेमि। सा य से पडितप्पेज्जा एवं से नो कप्पइ पारोक्खं पाडिएक्कं संभोइयं विसंभोइयं करित्तए, सा य से नो पडितप्पेज्जा, एवं से कप्पइ पारोक्खं पाडि एक्कं संभोइयं विसंभोइयं करित्तए ॥ सू०५॥ छाया--या निर्ग्रन्थ्यो वा निर्ग्रन्था वा सांभोगिकाः स्युः, नो खलु कल्पते प्रत्यक्षं प्रत्येकं साम्भोगिकी विसंभोगिकी कर्तुम् , कल्पते खलु परोक्षं प्रत्येकं साम्भोगिकी विसांभोगिकी कर्तम, यत्रैव ता आत्मनः--आचार्योपाध्यायान पश्येयः तत्रैव एवं वदेत-अहं ख भदन्त ! अमुक्या आर्यया सार्द्धम् अस्मिन् कारणे परोक्षं प्रत्येकं सांभोगिकी विसांभोगिकी करोमि। सा च तस्याः प्रतितपेत् , एवं तस्याः नो कल्पते परोक्ष प्रत्येकं सांभोगिकी विसांभोगिकी कर्तुम् । सा च तस्याः नो प्रतितपेत् , एवं तस्याः कल्पते परोक्ष प्रत्येक साम्भोगिकी विसांभोगिकी कर्त्तम् ॥ सू० ५॥ भाष्यम् – 'जाओ णिग्गंधीओ वा णिग्गंथा वा' याः काश्चन निम्रन्थ्यः श्रमण्यः निर्ग्रन्थाः श्रमणा वा 'संभोइया सिया' साम्भोगिकाः स्युः-भवेयुः, तेषां द्वयानां मध्ये निर्ग्रन्थीनाम् , अत्र निग्रन्थीपदस्य पूर्व प्रयुक्तत्वात् , 'नो ण्हं कप्पइ पञ्चक्खं पडिएक्कं संभोइयं विसंभोइयं करित्तए' नो खलु कल्पते प्रत्यक्षं प्रत्येकं साम्भोगिकी विसांभोगिकी कर्तुम् । तासां श्रमणीनां नो कथमपि कल्पते प्रत्यक्षं -तस्याः संमुखमित्यर्थः प्रत्येकम्-एकैकस्याः संयत्याः प्रत्यक्षरूपेण सांभोगिकी-भक्तपानादिव्यवहारवती श्रमणी विसांभोगिकी-संभोगरहितां परित्याजितभोजनादिव्यवहारां कर्तुम् । तर्हि कथं कल्पते ? इत्याह-'कप्पइ ण्डं पारोक्खं पाडिएक्कं संभोइयं विसंभोइयं करित्तए' कल्पते खलु परोक्षं प्रत्येकं साम्भोगिकी विसांभोगिकी कर्तुम्, कल्पते परोक्षं-परोक्षरूपेण तदनुपस्थितौ प्रत्येकं सांभोगिकी विसांभोगिकी कर्तुम् । तद्विधिमाह-'जत्थेव ताओ अप्पणो आयरियउवज्झाए पासेज्जा' अथ यत्रैव स्थले ताः आत्मनः स्वसंघाटकस्य आचार्योपाध्यायान्-आचार्यान्-गच्छनायकान् उपाध्यायान् वा पश्येयुः 'तत्थेव एवं वएज्जा' तत्रैव स्थले तासु मध्ये एका एवम्-वक्ष्यमाणप्रकारेण वदेत् । किं वदेदित्याह-'अहं णं' इत्यादि ।
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy