________________
व्यवहारसूत्र अष्टगुणवान् भिक्षुरेकाकिविहारप्रतिमाप्रतिपन्नो भवितुमर्हति उक्तञ्च-स्थानाङ्गे दशमे. स्थाने--'अहहिं ठाणेहिं अणगारे अरिहइ एगल्लविहारपडिमं उवसंपज्जित्ताणं विहरित्तए तंजहा-सड्ढी पुरिसजाए १, सच्चे पुरिसजाए २, मेहावी पुरिसजाए ३, बहुस्सुए पुरिसजाए ४, सत्तिमं ५, अप्पाहिगरणे ६, धिइमं ७, वीरियसंपन्ने ८, छाया-श्रद्धी पुरुषजातम् (पुरुष-प्रकारः) १, सत्यः पुरुषजातम् २, मेधावी पुरुषजातम् ३, बहुश्रुतः पुरुषजातम् ४, शक्तिमान् ५, अल्पाधिकरणः ६, धृतिमान् ७, वीर्यसंपन्नः ८ ॥ इति सू० २० ॥
पूर्व बहुश्रुतबह्वागमस्याऽहर्निशं भिक्षुभावं प्रतिजाग्रत एकाकिवासः प्रतिपादितः, एवं तर्हि एकवगडादियुक्तवसतौ सामान्यश्रमणस्यैकाकिवासे को दोषः ? इति श्रमणस्यैकाकिवासे दोषान् प्रदर्शयन्नाह-'जत्थ एए बहवे' इत्यादि ।
सूत्रम्-जत्थ एए बहवे इत्थीओ पुरिसा य पण्हावेंति तत्थ से समणे निग्गंथे अन्नयरंसि अचित्तसि सोयंसि मुक्कपोग्गले णिग्यायमाणे हत्थकम्मपडिसेवणपत्ते आवज्जइ मासियं परिहारहाणं अणुग्याइयं ॥ सू० २१ ॥ . छाया-यत्र एते बहवः स्त्रियः पुरुषाश्च प्रश्नुवन्ति तत्र स श्रमणो निर्ग्रन्थोऽन्य. तरस्मिन् अचित्ते स्रोतसि शुक्रपुद्गलान् निर्घातयन् हस्तकर्मप्रतिसेवनप्राप्तः आपद्यते मासिकं परिहारस्थानमनुद्घातिकम् ॥ सू० २१ ।।।
भाष्यम्-'जत्थ एए बहवे' यत्र-यस्याम् एकवगडादिविशेषणविशिष्टायां वसतौ एते प्रत्यक्षतः परिदृश्यमानाः बहवोऽनेके 'इत्थीओ पुरिसा य स्त्रियः पुरुषाश्च 'पण्हावंति' प्रश्नुबन्ति-प्रस्पन्दन्ते-एकान्तस्थानत्वेन तत्र संमील्य मैथुनं सेवितुमारभन्ते 'तत्थ से समणे निग्गंथे' तत्र तस्मिन् प्रदेशे यत्र प्रदेशे बहवः स्त्रीपुरुषाः मैथुनं प्रारभमाणास्तिष्ठन्ति तादृशक्षेत्रविशेषे तेषां मैथुनकर्म चक्षुषाऽवलोक्य य एकाकी स्थितः स श्रमणो निग्रन्थः तत उदीर्णवेदः सन् 'कोऽत्र मां पश्यति' इति कृत्वा 'अन्नयरंसि अचित्तंसि सोयंसि' अन्यतरस्मिन् अचित्ते स्रोतसि, तत्रान्यतरस्मिन्-हस्तकर्माधुचिते युगनालिकादिछिद्रे 'सुक्कपोग्गले णिग्यायमाणे' हस्तकर्मभावनया शुक्रपुद्गलान् निर्घातयन्-निष्कासयन् 'इत्थकम्मपडिसेवणपत्ते' हस्तकर्मप्रतिसेवनप्राप्तः-हस्तकर्मभावनया तत्रासक्तत्वात् हस्तकर्मप्रतिसेवनादोषं प्राप्तः सन् 'आवज्जइ' मापद्यते-प्राप्नोति 'मासियं' मासिकम् 'परिहारट्ठाणं अणुग्याइयं' परिहारस्थानम् अनुद्घातिकम् , गुरुचातुर्मासिकमनुद्घातिकं परिहारनामकं प्रायश्चित्तं प्राप्नोतीति भावः, तस्मात् श्रमणेन एकाकिना एकान्तस्थाने न स्थातव्यमिति सूत्राशयः ॥ सू० २१ ॥
पूर्व हस्तकर्मप्रत्ययिकं प्रायश्चित्तसूत्रमुक्तम् , सम्प्रति मैथुनप्रत्ययिकप्रायश्चित्ताभिधायक सूत्रमाह-'जत्य एए बहवे' इत्यादि।