SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ६ सू० १९-२१ बहुश्रुतस्यैकप्राकारादियुक्तवसतिवासानुज्ञा १५७ यत्राऽनेको निष्क्रमणस्य प्रवेशस्य च मार्गो भवति तस्यामनेकनिष्क्रमणप्रवेशमार्गायां वसतौ नो कप्पई' नो कल्पते 'बहुस्सुयस्स' बहुश्रुतस्य- सूत्रतोऽधीताऽनेकागमस्य 'बभागमस्स' बह्वागमस्य -अर्थतो ज्ञाताऽनेकागमस्य, य आवश्यकदशवैकालिकोत्तराध्ययनज्ञानवान् स बह्वागम आख्यायते, यः पुनर्द्वि त्रिसूत्रज्ञानवान् सोऽल्पश्रुतः, यस्तु सूत्राणि अनेकानि जानाति, अर्थ तु द्वित्राणामेव सोऽल्पाऽऽगमस्तस्य 'भिक्खुयस्स' भिक्षुकस्य साधोरेकाकिनः 'वस्थए' वस्तुं--निवासं कत्तुं न कल्पते 'किमंग पुण अप्पागमस्स अप्पसुयस्स' किमङ्ग पुनः -किमुत अल्पश्रुतस्याऽल्पागमस्य एकाकिनः सामान्यभिक्षुकस्य पृथग निवासः कल्पते तस्य सुतरामेव न कल्पते--इति तात्पर्यम् । यदा--बहुश्रुतस्य बागमस्यैकाकिनो निवासो न कल्पते तदा--अल्पश्रुतस्याऽल्पागमस्यैकाकिनस्तु कथमपि न कल्पते इति भावः ॥ सू० १९ ॥ पूर्वमेकाकिना वसतेरन्तर्बहिर्वा न वस्तव्यमित्यधिकृत्य कथितम्, सम्प्रति--बहुश्रुतस्योभयकालं भिक्षुभावप्राप्तस्यैकाकिनोऽपि एकवगडादियुक्तायां वसतौ वासः कल्पते, इत्यधिकृत्य सूत्रमाह--'से गामंसि वा' इत्यादि । सूत्रम्-से गामंसि वा नगरंसि वा जाव रायहाणिसि वा एगवगडाए एगदुवाराए एगनिक्खमणपवेसाए कप्पइ बहुस्सुयस्स बभागमस्स एगाणियस्स भिक्खुस्स वत्थए, दुहओ कालं भिक्खुभावं पडिजागरमाणस्स ।। सू० २० ॥ छाया-अथ ग्रामे वा नगरे वा यावद् राजधान्यां वा एकवगडायाम् पकद्वारायाम् एकनिष्क्रमणप्रवेशायाम् कल्पते बहुश्रुतस्य बह्वागमस्य एकाकिनो भिक्षोर्वस्तुम् , उभयकालं भिक्षुभावं प्रतिजाग्रतः ॥ सू० २० ॥ भाष्यम् -'से गामंसि वा नगरंसि वा जाव रायहाणिसि वा' अथ ग्रामे वा नगरे वा यावद् राजधान्यां वा 'एगवगडाए' एकवगडायां वा-एकप्राकारविशिष्टायां वसतो, 'एकवाराए' एकद्वारायां एकमेव द्वारं यत्र तस्याम्, 'एगनिक्खमणपवेसाए' एक निष्क्रमणप्रवेशायाम् यत्र एक एव निष्क्रमणमार्गः प्रवेशमार्गश्च तथाविधायां वसतो, 'कप्पइ' कल्पते 'बहुस्सुयस्स' बहुश्रुतस्य-सूत्रापेक्षयाऽनेकशास्त्रकुशलस्य 'बब्भागमस्स' बह्वागमस्य-अर्थापेक्षयाऽनेकागमज्ञानवतः, 'एगाणियस्स' एकाकिनः सहायकरहितस्येत्यर्थः, 'भिक्खुस्स' भिक्षोः-श्रमणस्य 'वत्थए' वस्तु-वासं कर्तुम् । कथमेकाकिनः कल्पते तत्राह-'दुहओ' इत्यादि, 'दुहओ कालं' उभयकालम् उपलक्षणादहोरात्रम् , 'भिक्खुभावं' भिक्षुभावम्-भावभिक्षुतां निरतिचारचारित्रमित्यर्थः 'पडिजागरमाणस्स' प्रतिजाग्रतः-दत्तावधानेन परिपालयतः, चारित्राराधनार्थ या सामाचारी तां कुर्वतः, चारित्रे दोषलेशो नापद्यतेति, तत्र अहर्निशं यतनां कुर्वतः एवम्भूतस्य एकवगडादिविशेषगविशिष्टायां वसतौ वस्तुमेकाकिनोऽपि कारणे कल्पते नान्यस्येति भावः।
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy