SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १५२ व्यवहारसूत्रे अथ पञ्चममतिशयमाह-- 'आयरियउवज्झाए' इयादि । सूत्रम् - - आयरियउवज्झाए बार्हि उवस्सयस्स एगरायं वा दुरायं वा वसमाणे नो अइक्कम || सू० १४ ॥ छाया -- आचार्योपाध्यायो बहिरुपाश्रयस्य एकरात्रं वा द्विरात्रं वा वसन् नो अतिक्रामति ॥ सू० १४ ॥ भाष्यम् – 'आयरियउवज्झाए' आचार्योपाध्यायः 'बाहि उवस्सयस्स' बहिरुपाश्रयस्य वसतेर्बहिर्भागे 'एगरायं वा दुरायं वा वसमाणे नो अइक्कमइ, एकरात्रं वा द्विरात्रं वा कारणवशाद् एकाकी वसन् नो अतिक्रामति न कथमपि अतिचारादिकं प्राप्नोति कारणिकज्ञानवत्त्वात् । इति पञ्चमोऽतिशयः । ५ । इत्येते पञ्चातिशया आचार्योपाध्यायानामेव भवन्ति तेषामागमकुशलत्वेन औचित्यतो वर्त्तनशीलत्वात् ॥ सू० १४ ॥ उक्ता आचार्योपाध्यायस्य पञ्चातिशयाः, सम्प्रति गणावच्छेदकस्यातिशयद्वयं भवेदिति प्रदर्शयन्नाह - 'गणावच्छेययस्स' इत्यादि । सूत्रम् - गणावच्छेययस्स णं गणंसि दो अइसेसा पन्नत्ता तं जहा - गणावच्छेछेयए अंतो उवस्सस्स एगरायं वा दुरायं वा वसमाणे नो अइक्कमइ । सू० १५॥ गणावच्छेयए बाहिं उवस्सयस्स एगरायं वा दुरायं वा वसमाणे नो अइक्कमइ || सू० १६॥ छाया - गणावच्छेदकस्य खलु गणे द्वावतिशेषौ प्रशप्तौ तद्यथा - गणावच्छेदकः अन्त. रुपाश्रयस्य एकरात्रं वा द्विरात्रं वा वसन् नो अतिक्रामति ॥ सू० १५ ॥ गावच्छेदको बहिरुपाश्रयस्य एकरात्रं वा द्विरात्रं वा वसन् नो अतिक्रामति ॥०१६ || भाष्यम् – 'गणात्रच्छेययस्स' गणावच्छेदकस्य 'गणंसि' गणे स्वगणमध्ये 'दो अइसेसा पन्नत्ता' द्वौ - द्विसंख्यकौ अतिशेषौ - अतिशयौ प्रज्ञप्तौ नतु साधारणतः आचार्योपाध्यायवदस्य पश्चातिशया भवन्ति । तदेवातिशयद्वयं प्रदर्शयति- 'तं जहा ' इत्यादि । तं जहा ' तद्यथा - 'गणाव - च्छेयए अंतो उवस्सयस्स' गणावच्छेदकोऽन्तः - मध्ये उपाश्रयस्य ' एगरायं वा दुरायं वा ' एकरात्रम् - एकरात्रिपर्यन्तं वा, द्विरात्रं वा रात्रिद्वयं वा 'वसमाणे' वसन् निवासं कुर्वन्, 'नो अइक्क - मइ' नो अतिक्रामति - अतिचारभाग् न भवति, इति प्रथमोऽतिशयः १ ॥ सू० १५ ॥ द्वितीयमाह - 'गणावच्छेयए' गणावच्छेदकः 'बाहि उवस्सयस्स' बहिर्बाह्यभागे उपाश्रयस्यवसतेः, 'एगरायं वा दुरायं वा वसमाणे एकरात्रम् - एकरात्रिपर्यन्तं वा, द्विरात्र रात्रिद्वयं वा
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy