________________
भाष्यम् उ० ६ सू० १७
अगोतार्थानामेकप्राकारादिवसतिवासविधिः १५३ वसन् निवासं कुर्वन् ‘नो अइक्कमइ' नो कथमपि अतिक्रामति अतिचारवान् न भवति, कारणाकारणज्ञानकुशलत्वात् । एतौ द्वावपि सूत्रोक्तावतिशयौ तस्यैव गणावच्छेदकस्य भवतः, यो हि गणावच्छेदको नियमतः आचार्यों भविता भविष्यति वा । यः पुनर्गणावच्छेदको गणावच्छेदकत्वे वर्तमान आचार्यपदानहः तस्य सूत्रोक्तो अतिशयो न भवतः ॥ सू० १६ ॥
___ उता आचार्योपाध्यायगणावच्छेदकानामतिशयाः, सम्प्रति वसतिवासप्रसङ्गात् अगी. तार्थानामेकप्राकारादियुक्तवसतौ वासनिषेधमाह-'से गामंसि वा' इत्यादि ।
सूत्रम्-से गामंसि वा जाव रायहाणिसि वा एगबगडाए एगदुवाराए एगनिक्खमणप्पवेसाए नो कप्पइ बहूणं अगडसुयाणं एगयओ वत्थए, अस्थि य इत्य ण्हं केइ आयारपकप्पधरे नत्थि य इत्थ ण्हं केइ छेए वा परिहारे वा, नत्थि य इत्थ ण्डं केइ आयारपकप्पधरे से संतरा छेए वा परिहारे वा ॥ सू० १७ ॥
छाया-अथ ग्रामे वा यावद्राजधान्यां वा एकवगडायां वा एकद्वारायां वा एकनिष्क्रमणप्रवेशायां वा नो कल्पते बहूनाम्-अकृतश्रुतानामेकतो वस्तुम् , अस्ति चात्र खलु कश्चिदाचारप्रकल्पधरः नास्ति चात्र खलु कश्चित् छेदो वा-परिहारो वा, नास्ति चात्र कश्चिद् आचारप्रकल्पधरः तेषां सान्तरात् छेदो वा परिहारो वा ॥ सू० १७ ॥
भाष्यम्-‘से गामंसि वा' अत्र 'से'-शब्दोऽथशब्दार्थवाचकः, ततश्च 'से' अथ ग्रामे, 'जाव रायहाणिसि वा' यावद् राजधान्यां वा, अत्र यावत्पदेन-'नगरंसि वा खेडंसि वा कब्बडंसि वा मडंबंसिवा दोणमुहंसि वा पट्टणंसि वा णिगमंसिवा आसमंसि वा संबाहंसिवा संनिवेसंसि वा' इति संग्राह्यम् । नगरे वा खेटे वा कर्बटे वा मडम्बे वा द्रोणमुखे वा पट्टने वा (पत्तने वा) आश्रमे वा संबाहे वा संनिवेशे वा, इतिच्छाया। तत्र ग्रामः-वृतिवेष्टितः, आकरः-सुवर्णरत्नाद्युत्पत्तिस्थानम् , नगरम्-अष्टादशकरवर्जितं जननिवासस्थानम्, खेटं-धूलिप्राकारपरिक्षिप्तम्, कर्बटम्-- कुत्सितनगरम् , मडम्बं-सार्धक्रोशद्वयान्तनामान्तररहितम्, द्रोणमुखं-जलस्थलपथोपेतो जननिवासः, पत्तनं-समस्तवस्तुप्राप्तिस्थानम् तद् द्विविधं भवति- जलपत्तनं स्थलपत्तनं चेति, नौभिर्यत्र गम्यते तज्जलपत्तनम् , यत्र च शकटादिभिर्गम्यते तत् स्थलपत्तनम् , यद्वा शकटादिभि भिर्वा यद्गम्यं तत् पत्तनम् , यत् केवलं नौभिरेव गम्यं तत् पट्टनम् , उक्तञ्च - "पत्तनं शकटैर्गम्यं, घोटकैनै:भिरेव च । नौभिरेव तु यद्गम्यं, पट्टनं तत् प्रचक्षते" ॥१॥
व्य, २०