________________
भाष्यम् उ० ६ सू० १२-१६
आचार्योपाध्यायस्यातिशयनिरूपम् १५१ द्वितीयवारं तृतीयवारं वा उपाश्रयाद्वहिरुच्चाराद्यर्थं गन्तुं न शक्नुयात्, यतो हि-मुहुर्मुहुर्बहिर्गमने श्रावकैर्वारं वारं विनयादिकं कर्तुं न पार्येत, इत्यवज्ञया शासनस्य लघुता स्यात्, अत एव द्वितीयादिवारं यद्युच्चारादिशङ्का भवेत् तदा तत्रैव तत् तेन कर्त्तव्यम्, तस्य बहिर्गमने तदनुपस्थितौ यदि कोऽपि अन्यतैर्थिको वादी सामायाति कस्तं निवारयेत् इत्यादिकारण संभवात् तस्य विशोधकोऽपि शिष्यो विशुद्धिं कुर्वन् तीर्थकराज्ञां नातिक्रामति प्रत्युत महानिर्जरां करोतीति भावः । इति द्वितीयोऽतिशयः २ ॥ सू० ११ ॥
"
,
अथ तृतीयमतिशयमाह – 'आयरियउवज्झाए' इत्यादि ।
सूत्रम् - आयरियउवज्झाए पभू वेयावडियं इच्छा करेज्जा इच्छा नो करेज्जा ॥ सू० १२ ॥
छाया -- आचार्योपाध्यायः प्रभुः वैयावृत्त्यम् इच्छा कुर्यात् इच्छा नो कुर्यात् ॥ सू० १२ ॥
भाष्यम् --- 'आरिय उवज्झाए पभू' आचार्योपाध्यायः प्रभुः समर्थः शरीरसामर्थ्यवानपि 'वेयावडियं इच्छा करेज्जा' वैयावृत्त्यम् अन्यसाधुम्यो भक्तपानादीनामानयनादिकम् इच्छा कुर्यात् यदीच्छा भवेत्तदा कुर्यात् कर्त्तुं शक्नोति, 'इच्छा नो करेज्जा' इच्छा नो कुर्यात्, यदीच्छा न भवेत्तदा न कुर्यात्, आचार्योपाध्यायस्य सामर्थ्येऽपि वैयावृत्त्यकरणप्रतिबन्धाभावात्, यदीच्छेत् तस्येच्छा भवेत् तदा वैयावृत्त्यं कुर्यात् यदि नेच्छा भवेत्, तदा न कुर्या तस्यातिशयवत्त्वात् । एष तृतीयोऽतिशयः ३ ॥ सू० १२॥
अथ चतुर्थमतिशयमाह - 'आयरियउवज्झाए' इत्यादि ।
सूत्रम् -- 'आयरियउवज्झाए अंतो उवस्सयस्स एगरायं वा दुरायं वा वसमाणे नो अइक्कमइ ।। सू० १३ ॥
छाया-- आचार्योपाध्यायः अन्तः उपाश्रययस्य एकरात्रं वा द्विरात्रं वा वसन् नो अतिक्रामति ॥ सू० १३ ॥
भाष्यम् – 'आयरियउवज्झाए अंतो उवस्सयस्स' आचार्योपाध्यायः अन्तः- मध्ये उपाश्रयस्य वसतेः 'एगरायं वा दुरायं वा वसमाणे' एकरात्रं वा द्विरात्रं वा एकाकी वसन् 'नो अक्कम ' नातिक्रामति कथमपि तीर्थङ्कराज्ञां नोल्लङ्घयति, तस्योपाश्रयमध्ये एका किवासोऽपि कल्पते अतिशयवत्त्वात् । एषश्चतुर्थोऽतिशयः 8 ॥ सू० १३ ॥