________________
१५०
व्यवहारस्त्रे छाया-आचार्योपाध्यस्य गणे पञ्च अतिशेषाः प्राप्ताः तद्यथा-आचार्योपाध्यायः अन्त उपाश्रयस्य पादौ निगृह्य निगृह्य प्रस्फोटयन् वा प्रमार्जयन् वा नो अतिक्रामति ॥सू०१०॥
भाष्यम्-'आयरियउवज्झायस्स' आचार्योपाध्यायस्य आचार्यश्चोपाध्यायश्चेत्याचार्योपाध्यायः आचार्यरूप उपाध्यायः यद्वा आचार्येण सहित उपाध्यायः आचार्योपाध्यायः, तस्याचार्योपाध्यायस्य 'गणंसि' गणे-गच्छमध्ये इत्यर्थः 'पंच अइसेसा पन्नत्ता' पञ्च-पञ्चसंख्यका अतिशेषाः- अतिशयाः सामान्यसाधोरनाचरणीयत्वात् प्रज्ञप्ताः-कथिताः । तानेव पञ्चातिशयान् दर्शयितुमाह-तं जहा' इत्यादि, 'तं जहा' तद्यथा-'आयरिय उवज्झाए' आचार्योपाध्यायः, आचार्यश्चोपाध्यायश्चेत्यर्थः, 'अंतो उवस्सयस्स' अन्तः उपाश्रयस्य वसतेमध्ये इत्यर्थः, 'पाए' पादौ स्वकीयचरणौ 'निमिज्झिय निगिन्झिय' निगृह्य निगृह्य-भूमौ यतनया-आस्फाल्यास्फाल्य 'पप्फोडेमाणे वा' प्रस्फोटयन्-तद्गतधूल्यादिमपनयन् 'पमज्जमाणे वा' प्रमार्जयन् वा वस्त्रादिना प्रोञ्छयन् वा 'नो अइक्कमई' नो अतिक्रामति-तीर्थकराज्ञा नोलत्यति, बाह्यत आगतस्य साधोः पादप्रमार्जनमुपाश्रयावहिरेव करणीयं भवेत् किन्तु आचायोपाध्यायस्य तदतिशयत्त्वेन प्रतिपादनान्न दोषः, यत आचार्योपाध्याया न किमपि कारणं विना एवं कुर्वन्ति, बहिगृहस्थानामुपस्थितौ एवं करणे शासनोड्डाहो भवति, यदेते असभ्या जैनसाधवः ये उपस्थितजने धूलिमुड्डापयन्तीत्यादि कारणवशात्ते एवं कुर्वन्ति ततो न तेषामाज्ञाभङ्गादि दोषः समापद्येत तेषामतिशयत्वेन भगवता प्रतिपादितत्वात् । एषः एकोऽतिशयः ॥सू०१०॥
अथ द्वितीयमाह-'आयरिय' इत्यादि ।
सूत्रम्-आयरियउवज्झाए अन्तो उवस्सयस्स उच्चारपासवणं विगिंचमाणे वा विसोहेमाणे वा नो अइक्कमइ ॥ सू० ११ ॥
छाया--आचार्योपाध्यायः अन्त उपाश्रयस्य उच्चारप्रस्रवणं विगिञ्चयन् वा विशोधयन् वा नो अतिक्रामति ॥ सू० ११ ॥
भाष्यम् –'आयरियउवज्झाए' आचार्योपाध्यायः 'अंतो उवस्सयस्स' अन्तःमध्ये उपाश्रयस्य 'उच्चारपासवणं' उच्चारप्रस्रवणम् 'विगिंचमाणे वा' विगिञ्चयन्-व्युत्सृजन् वा, 'विसोहेमाणे वा' भूमि विशोधयन् वा 'नो अइक्कमइ' नो अतिक्रामति, उपाश्रयमध्ये उच्चारप्रस्रवणं कुर्वन् आचार्यः तस्य यत् पुरीषादिकं विशोधयन् उच्चारादिपरिष्ठापकोऽपि नातिक्रामति । आचार्योपाध्यायस्य यदि प्रस्रवणादिवेगो भवेत् , तदा स उपाश्रयमध्य एव तत् कुर्यात् , यदन्यः कश्चिद् उच्चारादि परिष्ठापको भवेत्तर्हि -आचार्यः,