________________
भाष्यम् उ० ६ सू० ६-११
तन्दुलौदनभिलिङ्गसूपयोर्ग्रहणविधिः १४९
छाया - तत्र तस्य पूर्वागमनेन द्वावपि पूर्वायुक्तौ कल्पते तस्य द्वावपि प्रतिग्रहीतुम् ॥ सू० ६ ॥
भाष्यम् – अस्मिन् सूत्रे तन्दुलौदनो भिलिङ्गसूप चेति द्वावपि प्रतिग्रहीतुं कल्पते तयोद्वयोरपि पूर्वायुक्तत्वात् ॥ सू० ६ ॥
सूत्रम् -- तत्थ से पूव्वागमणेणं दोवि पच्छाउते नो से कप्पर दोवि पडिगात्तिए | सू० ७ ॥
छाया - तत्र तस्य पूर्वागमनेन द्वावपि पश्चादायुक्तौ नो तस्य कल्पते द्वावपि प्रतिग्रहीतुम् ॥ सू० ७ ॥
भाष्यम् -- अस्मिन् सूत्रे भिलिङ्गसूपस्तन्दुलौदनश्च द्वावपि नो कल्पते द्वयोरपि पश्चादायुक्तत्वात् ॥ सू० ७ ॥
अत्र कल्पने कारणं प्रदर्शयति- 'जे से तत्थ' इत्यादि ।
सूत्रम् -जे से तत्थ पुव्त्रागमणेणं पुव्त्राउत्ते, से कप्पड़ पडिग्गाहित्तए । सू० ८ ॥ छाया - यः सः तत्र पूर्वागमनेन पूर्वायुक्तः स कल्पते प्रतिग्रहीतुम् ॥ सू० ८ ॥ भाष्यम्- यः सः कोऽपि पदार्थो गृहस्थगृहे साधुप्रायोग्यः अशनादिः स सर्वोऽपि साधोरागमनात्पूर्वमायुक्तः - सम्पन्नः स कल्पते प्रतिग्रहीतुमिति तात्पर्यार्थः ॥ सू० ८ ॥
अथाऽकल्पने कारणमाह-- ' जे से' इत्यादि ।
सूत्रम् --जे से तत्थ पुन्वागमणेणं पच्छाउने, नो से कप्पइ पडिग्गाहित्तए | ०९ ॥ छाया - यः स तत्र पूर्वागमनेन पश्चादायुक्तो नो तस्य कल्पते प्रतिग्रहीतुम् ॥सू०९ ॥
भाष्यम् – यः स कोऽपि पदार्थः साधोर्ग्रहणयोग्योऽशनादिर्गृहस्थगृहे साधोरागमनात्पश्चादायुक्तः - सम्पन्नः स कोऽपि पदार्थः साधोर्न कल्पते इति भावः ॥ सू० ९ ॥
पूर्वं बहुश्रुतबह्वागमस्य ज्ञातविधिगमने विधिः प्रदर्शितः । ज्ञातविधिं कृत्वा ततः प्रत्यावर्त्य उपाश्रये आगच्छति तत्र पादप्रस्फोटनादि चावश्यं करोतीति तद्विषये आचार्योपाध्यायस्य पञ्चातिशेषान् दर्शयति-- 'आयरियउवज्झायस्स' इत्यादि ।
सूत्रम् - आयरियउवज्झायस्य गणंसि पंच अइसेसा पन्नत्ता, तं जहा आयरियउवज्झाए अंतो उवस्सयस्स पाए निगिज्झिय निगिज्झिय पष्फोडेमाणे वा पमज्जमाणे वा नो अइक्कमइ ॥ सू० १० ॥