SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे भाष्यम् – 'कप्पर से जे तत्थ बहुस्सुए बहागमे' कल्पते 'से' तस्य श्रम णस्य यस्तत्र - गच्छे बहुश्रुतः सूत्रापेक्षया, बह्नागमः अर्थापेक्षया 'तेण सद्धिं नायविहिं एत्तए' ते बहुश्रुतेन बह्वागमेन सार्धं ज्ञातविधिमेतुम् - स्वजनगृहं गन्तुं कल्पते इति संबन्धः, नैकाकिना श्रमणेन स्वजनगृहे गन्तुं शक्यते किन्तु - तस्मिन् गच्छे यो बहुश्रुतो बह्वागमः तेन साकं मिलित्वा गन्तुं शक्यते इति भावः || सू० ३ ॥ ૪૮ स्वजनगृहे गते सति तत्राहारग्रहणविधिमाह - ' तत्थ से' इत्यादि । सूत्रम् -- तत्थ से पुव्वागमणेणं पुव्वाउते चाउलोदणे, पच्छाउने भिलिंगसुवे कप्पर से चाउलोदणे पडिग्गाहित्तए नो से कप्पर भिलिंगस्वे पडिग्गाहित्तए । ० ४ ॥ छाया - तत्र तस्य पूर्वागमनात् पूर्वायुक्तः तन्दुलौदनः पश्चादायुक्तः भिलिङ्गसूपः कल्पते तस्य तन्दुलौदनः प्रतिग्रहीतुम्, नो तस्य कल्पते भिलिङ्गसूपः प्रतिग्रहीतुम् ॥ सू० ४ ॥ भाष्यम् - ' तत्थ से' इति तत्र - -गृहस्थगृहे तस्य - भिक्षार्थमागतस्य साधोः 'पुव्वागमणेणं' सूत्रे पञ्चम्यर्थे तृतीया आर्षत्वात् तेन आगमनात्पूर्वं साधोरागमनात्प्रागेव पुव्वाउत्ते' पूर्वायुक्तः पूर्वं रन्धनकाले एव आयुक्तः रध्यमानः गृहस्थैः स्वनिमित्तं पक्तुमारब्धः 'चाउलोदणे' तन्दुलौदनः वर्त्तेत 'पच्छाउने भिलिंगसवे' पश्चादायुक्तः साधोरागमनानन्तरं रध्यमानः 'भिलिंगसू वे' इति मसूर दालिर्भवेत् उपलक्षणमेतत् सर्वदालीनाम्, तत्र तयोर्मध्ये 'कप्पइ से' कल्पते तस्य साधोः 'चाउलोदणे' तन्दुलौदनः 'पडिग्गाहित्तए' प्रतिग्रहीतुम् तन्दुलौदनस्य पूर्वायुक्तत्वात्, किन्तु 'नो से कप्पइ' नो - नैव - तस्य - साधोः कल्पते 'भिलिंगस्वे' मसूर - सूपः 'पडिग्गाहित्तए' प्रतिग्रहीतुं तस्य पश्चादायुक्तत्त्वात् ॥ सू० ४ ॥ पुनरेवाह--' तत्थ पुन्वागमणेणं' इत्यादि । सूत्रम् - तत्थ पुव्वागमणेणं पुव्वाउत्ते मिलिंगसूवे, पच्छाउने चाउलोदणे, कप से मिलिंग पडिग्गाहित्तए, नो से कप्पइ चाउलोदणे पडिग्गाहित्तए । सू० ५ ॥ छाया - तत्र पूर्वागमनेन पूर्वायुक्तो भिलिङ्गसूपः पश्चादायुक्तस्तन्दुलौदनः कल्पते तस्य भिलिङ्गसूपः प्रतिग्रहीतुम्, नो तस्य कल्पते तन्दुलौदनः प्रतिग्रहीतुम् ॥ सू० ५ ॥ भाष्यम् – अस्मिन् सूत्रे भिलिङ्गसूपः साधोः प्रतिग्रहीतुं कल्पते पूर्वायुक्तत्वात् किन्तु तन्दुलौदनो न कल्पते तस्य पश्चादायुक्तत्वादिति सूत्रभावः || सू० ५ ॥ सूत्रम् - तत्थ से पूव्वागमणेणं दोवि पुव्वाउत्ते कप्पर से दोवि पडिग्गाहित्तए | सू० ६ ॥
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy