________________
माज्यम् उ० ६ सू० १-५
भिक्षोः स्वजनमिलनार्थगमनविधिः १४७ अथवा पूर्वसंस्तुता मातापित्रादयः, पश्चात्संस्तुताः श्वश्रूश्वशुरश्यालकादयः, तन्नि मित्तेन यः सम्बन्धः स ज्ञातविधिरुच्यते, माता पितृश्वश्रूश्वशुरादिविषयेऽनेके भेदा भवन्ति, अतो विधिशब्दोऽत्र भेदवाचको ज्ञातव्यः, तेषां गृहे दर्शनदानाद्यर्थम् एतुं-प्राप्तुं गन्तुमित्यर्थः तदा-'नो से कप्पइ थेरे अणापुच्छित्ता नायविहिं एत्तए' 'नो'-न कथमपि 'से' तस्य-श्रमणस्य कल्पते स्थविरान् गच्छनायकान् अनापृच्छय स्थविराज्ञामन्तरेणेत्यर्थः ज्ञातविधिमेतुम् आत्मनः स्वजनगेहे गन्तुम् । 'कप्पड़ से थेरे आपुच्छित्ता नायविहिं एत्तए' कल्पते तस्य स्थविरान् गच्छनायकान् आपृच्छय गच्छनायकस्याऽऽज्ञां लब्ध्वा इत्यर्थः ज्ञातविधिमेतु-स्वजनगृहे गन्तुमिति । प्रच्छने यदि-थेराय से वियरेज्जा' स्थविराश्च 'से' तस्य वितरेयुः-गमनायाऽऽज्ञां दद्यः ‘एवं से कप्पइ नायविहिं एत्तए' एवं गच्छनायकस्याऽऽज्ञासंप्राप्त्यनन्तरम् ‘से' तस्य श्रमणस्य कल्पते ज्ञातविधिमेतुम् 'थेरा य से नो वियरेन्जा' यदि स्थविराश्च तस्य स्वजनगृहे गन्तुमाज्ञां नो वितरेयुः नो दधुः ‘एवं से नो कप्पइ नायविहिं एत्तए' एवम्-आज्ञावितरणाभावे तस्य नो कल्पते ज्ञातविधिमेतुम् । 'जं तत्थ थेरेहिं अविइण्णे नायविहिं एइ' यत् यदि श्रमणस्तत्र स्थविरैरवितीर्णोऽननुज्ञातः ज्ञातविधिमेति प्राप्नोति स्थ वेराज्ञामन्तरेण यदि कश्चित् श्रमणः स्वजनगृहं याति गच्छति 'से संतरा छेए वा परिहारे वा' 'से' तस्य-श्रमणस्याज्ञामन्तरेण ज्ञातविधिं कुर्वतः सान्तरात् स्वकृताद् अन्तरात् आज्ञोल्लञ्चनरूपाऽपराधात् छेदो वा परिहारो वा, गच्छनायकाज्ञामुल्लंध्य ज्ञातविधिकरणे श्रमणस्य छेदनामकं परिहारनामकं वा प्रायश्चित्तं भवति, इति भावः ॥ सू० १॥
ज्ञातविधिमेतुं कस्य न कल्पते ? तत्राह-'नो से कप्पई' इस्यादि । सूत्रम्-नो से कप्पइ अप्पमुयस्स अप्पागमस्स एगाणियस्स नायविहिं एत्तए ॥२०२॥ छाया-नो तस्य कल्पते अल्पश्रुतस्य अल्पागमस्य एकाकिनो शातविधिमेतुम् ॥सू०२॥
भाष्यम्-'नो से कप्पई' नो-न कल्पते कथपि 'से' तस्य श्रमणस्य, कीदृशस्येत्याह'अप्पमुयस्स' अल्पश्रुतस्याऽगीतार्थस्य, 'अप्पागमस्स' अल्पागमस्य-आगमज्ञानविकलस्य लौकिकशास्त्रेष्वतिपर्राि चतस्य स्वशास्त्रविषयकज्ञानवञ्चितस्य, पुनश्च गीतार्थे सत्यपि 'एगाणियस्स' एकाकिनः सहायकरहितस्याद्वितीयस्य 'णायविहिं एत्तए' ज्ञातविधिमेतुम्-प्राप्तुम्, अल्पश्रुतेनअल्पागमेन एकाकिनाऽगीतार्थेन श्रमणेन स्वजनगृहे गमनं न कर्त्तव्यमित्यर्थः ॥ सू० २ ॥
ज्ञातविधेमेतुं कस्य कल्पते ! इति तद्विधिमाह--'कप्पइ से जे तत्थ' इत्यादि । सूत्रम्-कप्पइ से जे तत्थ बहुस्सुए बब्भागमे तेण सद्धिं नायविहिं एत्तए।०३॥ छाया - कल्पते तस्य यस्तत्र बहुश्रुतो बबागमः तेन सार्च हातविधिमेतुम् ॥ सू०३॥