SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ अथ षष्ठोदेशकः प्रारभ्यते व्यथ पञ्चमोद्देशकस्य चरमसूत्रेणास्य षष्ठोदेशकस्यादिसूत्रेण सह कः सम्बन्धः ? इति सम्बन्धं प्रदर्शयन्नाह भाष्यकारः - 'पंचम' इत्यादि । गाथा- - "पंचमउद्देसंते, गिलाणभावो पदंसिओ मुणिणो । सो इच्छइ नायविर्हि संबंधो एस नायव्वो" ॥ १ ॥ छाया - पञ्चमोद्देशकान्ते ग्लानभावः प्रदर्शितो मुनेः । स इच्छति ज्ञातविधि, सम्बन्ध पष ज्ञातव्यः ॥ १ ॥ व्याख्या - 'पंचम उद्देसंते' - पञ्च मोद्देशकस्यान्ते चरमसूत्रे 'मुणिणो' मुनेः-निर्यन्थस्य 'गिलाणभावो' ग्लानभावः - सर्पदंशेन मनोदौर्बल्यरूपः 'पदंसिओ' प्रदर्शितः । 'सो' सः - मरणाशङ्कादिना खिन्नः सन् 'णायविहिं' ज्ञातविधि, तत्र - ज्ञाता :- मातापित्रादयः तत्संबन्धीभूतावा, तेषां विधिं ज्ञातसम्बन्धमाश्रित्य तत्तत्संबन्धीभूतं ज्ञातभेदम् अन्यस्वजनान् वा 'इच्छा' इच्छति तेषां समीपे गन्तुमिच्छेदित्यर्थः । अथवा स्वजना ग्लाना मरणासन्ना वा भवेयुस्तेषां दर्शनदानाद्यर्थं वा गन्तुमिच्छेदिति षष्ठोदेशकस्यादौ ज्ञातविधिः प्रदर्श्यते, एष सम्बन्धः पूर्वापरोदेशकयोर्ज्ञातव्य इति ।। १ ।। तत्रादिमं सूत्रमाह - "भिक्खू य इच्छेज्जा' इत्यादि । सूत्रम् - भिक्खू य इच्छेज्जा नायविहिं एत्तए, नो से कप्पइ थेरे अणापुच्छित्ता नाय - विहिं एत्तए, कप्पर से थेरे आपुच्छित्ता नायविहिं एत्तए, थेरा य से त्रियरेज्जा एवं से nous नायविहिं एत्तए, थेराय से नो वियरेज्जा, एवं से नो कप्पइ नायविहिं एत्तए, जं तत्थ थेरेहिं अविणे नायविहिं एइ, से संतरा छेए वा परिहारे वा ॥ सू० १॥ " छाया -- भिक्षुश्च इच्छेत् ज्ञातविधि नो तस्य कल्पते स्थविराननापृच्छय ज्ञातविधिमेतुम् कल्पते तस्य स्थविरान् आपृच्छ्य ज्ञातविधिमेतुम् स्थविराश्च तस्य वितरेयुः, एवं तस्य कल्पते ज्ञातविधिमेतुम्, स्थविराश्च तस्य नो वितरेयुः, एवं तस्य नो कल्पते ज्ञातविधिमेतुम्, यत्तत्र स्थविरैः अवितीर्णो ज्ञातविधिमेति तस्य सान्तरात् छेदो वा परिहारो वा ॥ सू० १ ॥ भाष्यम् -- ' भिक्खू य इच्छेज्जा' भिक्षुः - श्रमणः च - शब्दात् श्रमणी च इच्छेत्, किमिच्छेत्तत्राह - 'नायविर्हि' इत्यादि, 'णायविहिं एत्तए' ज्ञातविधिं स्वजनभेदम्, ज्ञाता - मातापित्रादयः,
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy