________________
समुन्नेयाः । अपवादे मायमाढकास्मे विवेकः कर्त्तव्य इति । विशेषत मालोचनादोषा वैयाइलादोषाश्च स्थानाङ्गसूत्राज्ञातव्याः ॥ सू० १९ ॥
। पूर्व विपक्षेऽन्योऽन्यवैयावृत्त्यकरणं निषिद्धम् , गाढकारणे चाज्ञा प्रतिपादिता, साम्प्रतं स्थविरकल्पिकजिनकल्पिकयोरपवादोत्सर्गों प्रतिपादयन्नाह-'णिग्गंथं च णं' इत्यादि ।
सूत्रम्-णिग्गंथं च गं राओ ना विनाले चा दीहपट्ठो का लूसेज्जा इत्यी वा पुरिसस्स ओमावेज्जा पुरिसो का इत्थीए भोगावेज्जा, एवं से कप्पइ एवं से चिट्ठई परिहारं च नो पाउणइ एस कप्पे थेरकप्पियाणं । एवं से नो कप्पइ एवं से नो चिट्ठइ परिहारं च नो पाउणइ एस कप्पे जिणकम्पियाणं ति बेमि ॥ सू० २१॥
ववहारस्स पंचमो उद्देसो समत्तो ॥५॥ छाय-निर्ग्रन्थं च खलु रात्रौ वा विकाले वा दीर्घपृष्ठो लूपयेत् स्त्री या पुरुपस्यापमार्जयेत् पुरुषो वा स्त्रिया अपमार्जयेत्, एवं तस्य कल्पते एवं तस्य तिष्ठति परिहारं च नो प्राप्नोति एष कल्पः स्थविरकल्पिकानाम् । एवं तस्य नो कल्पते एवं तस्य नो तिष्ठति परिहारं च नो प्राप्नोति एषः कल्पो जिनकल्पिकानाम्, इति ब्रवीमि ॥ सू० २०॥
व्यवहारस्य पञ्चम उद्देशः समाप्तः ॥ ५॥ भाष्यम्-'णिग्गंथं च णं' निम्रन्थं श्रमणम् चकारात्-निर्ग्रन्थीं च खलु 'राओ वा वियाले वा' रात्रौ वा विकाले-सायंकाले प्रातःकाले तदन्यकाले वा यदि-दीडपट्ठो वा लूसेज्जा' दीर्घपृष्ठः सर्पः लूपयेत्-दशेत् तत्र-'इत्थी वा पुरिसस्स ओमावेज्जा' स्त्री श्रमणी पुरुषस्य साधोः स्वहस्तेन तं विषमपमार्जयेत् मन्त्रौषधादिना निवारयेत् 'पुरिसो इत्थीए ओमावेज्जा' पुरुषः साधुः स्त्रियाः श्रमण्याः स्वहस्तेन विषमपमार्जयेत् । यदि-साधुः साध्वी वा सर्पदष्टा भवेत् तत्राऽसति व्यक्त्यन्तरे साधुः श्रमण्याः विषं हस्तेन प्रमार्जयेत् , श्रमणी वा श्रमणस्य विषं हस्तेनाऽपसारयेदिति भावः । ‘एवं से कप्पई' एवम् एतादृश्यां परिस्थितौ तस्य स्थविरकल्पिकस्य कल्पते, ‘एवं से चिहई' एवम्-अनेन प्रकारेण अपवादमासेवमानस्य तस्य स्थविरकल्पिकस्य तिष्ठति पर्यायः न तु सः स्थविरकल्पिकत्वात् पर्यायपरिभ्रष्टो भवति अत एव 'परिहारं च से नो पाउणई' परिहारं च तपः स स्थविरकल्पिकः प्रायश्चित्तरूपेण न प्राप्नोति परिहारनामकं प्रायश्चित्तं च तस्य न भवति 'एस कप्पे थेरकप्पियाणं' एषः-सूत्रोक्तः कल्पः-आचारः स्थविरकल्पिकानां कथितः । सम्प्रति जिनकल्पिकमधिकृत्य उत्सर्गमार्ग प्रदर्शयितुमाह-'एवं से नो' इत्यादि, 'ए से नो कप्पई' एवम्-उत्तप्रकारेण सपक्षेण विपक्षेण वा वैयावृत्त्यकारणं 'से' तस्य बिनकल्पिकस्य नो नैव कथमपि कल्पते, 'एवं से नो चिटई' एवम्-अनेन प्रकारेण अपवादपदासेवनेन तस्य जिनकल्पिकस्य जिनपर्यायो न तिष्ठति, जिनकल्पिकत्वात् पतितो भवतीत्यर्थः ।