SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ माष्यम् उ० ५ सू १९-२० निर्ग्रन्थनिम्रन्थीनां स्वपक्षविपक्षे चैयावृत्त्यविधिः १४३ दोषेऽपि श्रुते अपरिस्राविणः न कस्मैचिदपि प्रकटनशीला इत्यर्थः, चिरदीक्षिताः-प्रभूतकालपत्रजिताः, वृद्धाः-श्रुतेन पर्यायेण वयसा च महान्तः, एवम्भूता यतयः-साधवः उपलक्षणात् साध्व्यश्च आलोचनादानयोग्याः आलोचनादाने समुचिता भवन्तीति ॥ १॥ अत्राह भाष्यकारः'आलोयणाए' इत्यादि । गाथा-"आलोयणाए जे दोसा, वेयावच्चेवि ते पुणो।' - तम्हा अन्नोन्नभावेणं, वेयावच्चं न कारए" ॥१॥ छाया-आलोचनायां ये दोषा वैयावृत्त्येऽपि ते पुनः। तस्माद् अन्योऽन्यभावेन वैयावृत्त्यं न कारयेत् ॥१॥ व्याख्या-ये च खलु-विपक्षे-आलोचनायां दोषाः कथिताः, ते सर्वेऽपि दोषाः वैयावृत्त्येऽपि परस्परं वैयावृत्त्यकारणेऽपि भवन्ति तस्माद् अन्योऽन्यभावेन विपक्षे वैयावृत्त्यं न कारयेदिति सूत्राक्षरार्थः । अयं भावः-विपक्षातू-वैयावृत्त्यं शारीरिकं हस्तपादादिसंवाहनरूपं कारयतः साधोः कदाचित् चञ्चलचित्तायाः साध्व्या विषये मनो विकृतं भवेत् तेन व्रतभङ्गदोष आपयेत, माहाराघानयनविषये च श्रमण्या समानीतमन्नादिकं भुञ्जतः साधोराज्ञाभङ्गादिदोषाः, शङ्कितादिदोषाश्च भवेयुः । उक्तञ्चात्र समणीए आणीय, मुंजइ असणाइ जत्थ समणो य । गच्छो नपुंसओ सो, एवं समणीण धम्मकहा ॥१॥ छाया--श्रमण्या आनीतं भुङ्क्ते अशनादि यत्र श्रमणश्च । ___ गच्छो नपुंसकः सः, एवं श्रमणीनां धर्मकथा ॥१॥ अयं भावः–यस्मिन् गच्छे श्रमण्या समानीतमशनादिकमकारणे श्रमणो भुङ्क्ते स गच्छो नपुंसको विज्ञेयः । एवं श्रमणानां सद्भावे श्रमण्या धर्मकथाऽपि बोध्या । श्रमणसत्तायां श्रमणी यदि पट्टोपर्युपविश्य परिषदि धर्मकथां करोति यस्मिन् गच्छे स गच्छोऽपि नपुंसक एवेति ॥ १॥ पुनश्च-आहारानयने-'अन्यन्मनसि-अन्यद्वचसि' इत्यादिदुष्टलक्षणलक्षिता संयती कदाचिद् अनेषणीयमप्यशनादिकमानीय समर्पयति, इत्यादि दोषबाहुल्यात् कथमपि किमपि संयतेन संयतीभिः किमपि वैयावृत्त्यं न कारयितव्यमिति। एवं संयत्याः संयतेर्वैयावृत्त्यकारणे दोषाः
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy