________________
१४२
व्यवहारसूत्रे
व्याख्या - दशस्थानसंपन्नोऽनगारः आलोचकेन दीयमानामालोचनां प्रहीतुमर्हति, कीदृशः स भवितुमर्हति ? 'तं जहा' तद्यथा - आचारवान् - ज्ञानाद्याचारवान् १, अवधारवान् - अवधारणावान् २, व्यवहारवान् - आगमादिपश्चप्रकारव्यवहारखान् ३, अपत्रीडकः - लज्जापनोदकः यथा परः सुखमालोचयति ४, प्रकुर्वकः - आलोचितेऽतिचारे शुद्धिकरणसामर्थ्यवान् ५, निर्या - पकः - निर्यापनकारकः तथा प्रायश्चित्तं ददाति यथा स निर्वोढुं शक्नोति ६, अपरिस्रावी - श्रुतालोचकदोषाणां न कस्मैचित्कथनशीलः ७, अपायदर्शी - आलोचकस्य पारला किकाsपायदर्शकः ८, प्रियधर्मा-धर्मप्रियः ९, दृढधर्मा - आपद्यपि धर्मे विचल १० इति । तस्य, तथा ज्येष्ठस्य च समीपे आलोचना कर्तव्या । यदि तत्र दशविधगुणयुक्तो न भवेत्तदा पर्यायज्येष्ठस्य समीपे दैवसिकं रात्रिकं सामान्यम तिचारजातमालोचयेदिति । अथापवादमाह - अथ यदि - 'नत्थि या इत्थ के आलोयणारिहे' न सन्ति न विद्यन्ते चेदत्र ं केचिदालोचनार्हा निर्ग्रन्थाः ' एवं हूं कप्पर अन्नमन्नस्स अंतिए आलोएत्तर' एवम् - एतादृश्यां परिस्थितौ खलु कल्पतेऽन्योऽन्यस्याऽन्तिके-समीपे आलोचयितुम् - आलोचनां कर्त्तुमिति ।
--
अयं भावः - आलोचना च न विपक्षे, सपक्षेऽपि नागीतार्थेषु भवितुमर्हति तत्र गुप्तातिवारस्य प्रकटनायोग्यत्वात् । तत्र विपक्षः संयताः संयतीनाम्, संयत्यश्च संयतानामिति । सपक्षः संयताः संयतानाम् संयत्यश्च संयतीनां भवति । यतः - विपक्षे आलोचनायां चतुर्थत्रतादिगुप्तातिचाराणां प्रकटने परस्परं भावभेदः संभवति, तस्माद् भगवता अन्योऽन्यालोचनाप्रतिषेधकमिदं सूत्रं प्रतिपादितम् । अपवादपक्षे गाढागाढकारणे समुत्पन्ने परस्परालोचना विधिप्रतिपादकं सूत्रं प्रवर्त्तितम् । तत्रापि विवेकः प्रवर्त्तयितव्यः, यथा - आलोचको युवको वृद्धो वा आलोचना निर्ग्रन्थी वृद्धाऽवश्यम्भाविनी । आलोचिका युवतिर्वृद्धा वा आलोचनाहों निर्ग्रन्थो वृद्धोंSवश्यंभावी युज्यते, एवं परस्परालोचनाविधिप्रतिपादकं सूत्रं प्रवर्त्तनीयमिति । आलोचनाहैः कीदृशैर्भवितव्यम् ? तत्राह भाष्यकारः - 'गीयत्था' इत्यादि ।
गाथा - " गीयत्था कयकरणा, पोढा परिणामिया य गंभीरा ।
चिरदिक्खिया य वुड्ढा, जइणो अलोयणाजोग्गा ॥ १ ॥ " छाया—गीतार्थाः कृतकरणाः, प्रौढाः पारिणामिकाश्च गम्भीराः । चिरदीक्षिताश्च वृद्धाः, यतय आलोचनायोग्याः ॥ १ ॥ व्याख्या - गीयत्था' इति । गीतार्थाः - सूत्रार्थतदुभयनिष्णाताः कृतकरणाः - अनेकवारमालॊचनादाने सहायीभूताः, प्रौढाः - समर्थाः सूत्रतोऽर्थतश्च प्रायश्चिसदाने पश्चात्कर्त्तुमशक्याः, पारिणामिका:- आलोचनायाः परिणाम चिन्ताकुशलाः, गम्भीराः आलोचकस्थ महति