SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ मान्यम् उ०५ सू०१९ निर्ग्रन्थनिर्ग्रन्थीनां परस्परमालोचनाविधिः पर द्वादशविवः, उक्तश्चमाथा-'उवहि-सुय-भत्तपाणं, अंजलिपगहो य दाक्णा णेया । छठें निकायणं तह, अब्भुट्ठाणं च किइकम्मं ॥१॥ वेयावच्च चसमो-सरो निसज्जा कहापबंधौ य । बारसविहो य एसो, संभोगी मोघओ णेओ ॥२॥ इति, छाया-उपधि-श्रुत-भक्तपानम् अञ्जलिप्रग्रहश्च दापना ज्ञेया। षष्ठं निकाचनं तथा, अभ्युत्थानं च कृतिकर्म ॥१॥ वैयावृत्त्यं समवसरणं निषद्या कथाप्रबन्धश्च । द्वादशविधश्चैष संभोग ओघतो ज्ञेयः ॥२॥ इति । तथाहि-उपधिविषयः १, श्रुतविषयः २, भक्तपानविषयः ३, अञ्जलिप्रग्रहविषयः ४, दापनाविषयः, दापना-शय्याहारोपधिस्वाध्यायशिष्यगणानां प्रदाफ्नं तद्विषयः ५, निकाचनविषयः, निकाचनं निमन्त्रण तद्विषयः ६, अभ्युत्थानविषयः ७, कृतिकर्मविषयः ८, वैयावृत्यविषयः ९, समक्सरणं व्याख्यानादिकरणे गृहस्थसाक्षात् परस्पस्मन्तिके उपवेशनं, तद्विषयः समवसरणविषयः १०, संनिषद्याविषयः ११, कथाप्रबन्धविषयश्चेति १२ द्वादशविधः संभोगस्तद्विशिष्टाः सांभोगिका भवेयुः 'नो ण्हं कप्पइ अन्नमन्नस्स अंतिए आलोएत्तए' नो-नैव 'ई' इति वाक्यालङ्कारे कल्पतेऽन्योऽन्यस्य-परस्परस्य अन्तिके-समीपे निम्रन्थस्य निम्रन्थीसमीपे, निम्राश्च निम्रन्थसमीपे मालोचयितुम्-आलोचनां कत्तुम् स्वकीयं स्वकीयमतीचारजातं प्रकटयितुं नो कल्पते इति सम्बन्धः । एवं तर्हि कुत्र कल्पते ! इत्याह-'अस्थि या' इत्यादि । 'अत्थि या एल्थ का मालोयणारिहे' सन्ति-बिद्यन्ते चेत्र समुदाये केचिदालोचनाहर्हाः मालोचनादानयोग्याः स्थानाङ्गसूत्रस्य दशमस्थानोक्तदशविषगुणवन्तो निर्मन्थास्तदा-'कप्पड़ से तेर्सि अंतिए आलोएत्तए' कल्पते तस्य-आलोचकस्य तेषाम् मालोचनार्हाणामन्तिके समीपे आलोचयितुम् । आलोचनाहः स्थानाङ्गसत्रस्य दशमस्थानोक्तदशविधगुणधारको मवेत् । उक्तञ्च "दसहि ठाणेहिं संपन्ने अणगारे अरिहइ आलोयणं पडिच्छित्तए, तं जहा-आयारवं १, अवहारवं २, ववहारवं ३, ओवीलए ४, पकुव्वए ५, अपरिस्साई ६, निग्जावए ७, भवायदंसी ८, पियधम्मे ९, दढधम्मे १०" ॥ छाया-आचास्वान् १, अवभारवान् २, व्यवहारवान् ३, अपनीडकः ४, प्रकुर्वकः ५, मारिनावी ६, निर्यापकः ७, अपायदर्शी 4, प्रियधर्मा ७ धर्मा १० इति ।
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy