________________
व्यवहारस्त्रे छाया-स्थविराणां स्थविरभूमि प्राप्तानाम् आचारप्रकल्पो नामाऽध्ययनं परिभ्रष्ट स्यात् कल्पते तेषां सन्निषण्णानां वा त्वग्वतयतां वा उत्तानकानां वा पार्श्ववतां (पार्श्वतः स्थितानाम्) वा आचारप्रकल्पो नामाऽध्ययनं द्वितीयमपि तृतीयमपि प्रतिप्रष्टुं वा प्रतिसारयितुं वा ॥ सू० १८ ॥
भाष्यम्--'थेराणं' स्थविराणाम् 'थेरभूमिपत्ताणं' स्थविरभूमिप्राप्तानाम्-आचार्यपदप्राप्तानाम् , अथवा-अतिवृद्धभावं प्राप्तानाम् , 'आयारपकप्पे नाम अज्झयणे' आचारप्रकल्पः-आचाराङ्गनिशीथादिसूत्रं नामाऽध्ययनम् 'परिब्मटे सिया' परिभ्रष्ट-विनष्टं विस्मृतमित्यर्थः स्यात्-भवेत् 'कप्पइ तेर्सि' कल्पते युज्यते तेषां विस्मृताध्ययनानाम् 'संनिसण्णाण वा'-सन्निषण्णानां वा-निषधागतानां समुपविष्टानामित्यर्थः 'संतुयहाण वा' त्वग्वर्त्तनेन स्थितानां सुप्तानामित्यर्थः 'उत्ताणयाण या' उत्तानकानां वा-हृदयभागमूवीकृत्य शयनं कुर्वताम् 'पासल्लियाण वा' पार्श्ववतां वामादिपार्वतः स्थितानाम् आश्रयमादायोपविष्टानां वा 'आयरपकप्पे नाम अज्झयणे'-आचारप्रकल्पनामकमध्ययनम् 'दोच्चपि तच्चपि' द्वितीयमपि वारं तृतीयमपि वारम् अपिशब्दात् चतुर्थादिवारमपि 'पडिपुच्छित्तए वा' प्रतिप्रष्टुं वा तद्विषयां पृच्छां कर्तुम् 'पडिसारेत्तए वा' प्रतिसारयितुं वा संस्मत् ग्रहीतुं वा कल्पते इति पूर्वेण संबन्धः ॥ सू० १८॥
पूर्व निर्ग्रन्थनिर्ग्रन्थीनां विस्मृताचारप्रकल्पाध्ययनस्य पठनमाश्रित्य कथितम् , साम्प्रतं निम्रथनिम्रन्थीनां द्वादशविधः सम्भोगो भवति तत्र कोऽपि दोष आपतितो भवेत्तदा तस्याऽऽलोचना कर्तव्येत्यालोचनाविधिं प्रदर्शयति-'जे णिग्गया णिग्गंधीओ य' इत्यादि ।
सूत्रम्-जे णिग्गंथा णिग्गंधीओ य संभोइया सिया, नो ण्हं कप्पड अन्नमन्नस्स अंतिए आलोएत्तए, अस्थि या एत्थ केइ आलोयणारिहा कप्पइ से तेसि अंतिए आलोएत्तए, नत्थि या एत्थ केइ आलोयणारिहा एवं ण्हं कप्पइ अन्नमन्नस्स अंतिए आलोएसए ॥ सू० १९॥
छाया-ये निर्ग्रन्था निम्रन्ध्यश्च सांभोगिकाः स्युः नो खलु कल्पते अन्योऽन्यस्याऽन्तिके आलोचयितुम् , सन्ति चात्र केचित् मालोचनार्हाः कल्पते तस्य तेषामति भालोचयितुम् , न सन्ति वा केचित्र आलोचनार्हाः एवं खलु कल्पते अन्योऽन्यस्या. न्तिके आलोचयितुम् ॥ सू० १९ ॥
भाष्यम्-'जे णिग्गंथा' ये निम्रन्थाः ‘णिग्गयीभो य' निम्रन्थ्यश्च 'संभोइया सिया'-साम्भोगिकाः स्युः, तत्र संभोगः उपध्यादिवस्तूनां परस्परमादानप्रदानम् , स च भोधतो