SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ५ सू० १७-१८ स्थविराणामाचारप्रकल्पे नष्टेऽपि पददानविधिः १३९ सानां च आचारप्रकल्पनामकाऽध्ययनस्य विस्मृतौ संस्थापने असंस्थापने वापि आचार्यादिपदं दातव्यं भवेदिति प्रदर्शयन्नाह—'थेराणं' इत्यादि । .. - सूत्रम्-थेराणं थेरभूमिपत्ताणं आयारपकप्पे नाम अज्झयणे परिभहे सिया कप्पइ तेसि संठवेत्ताण वा असंठवेत्ताण वा आयरियत्तं वा जाव गणावच्छेययत्तं वा उद्दिसित्तए वा धारित्तए वा ॥ सू० १७ ॥ छाया-स्थविराणां स्थविरभूमिप्राप्तानामाचारप्रकल्पो मामाभ्ययनं परिभ्रष्ट स्यात् कल्पते तेषां संस्थापयतामसंस्थापयतां वा आचार्यत्वं वा यावद्गणावच्छेदकत्वं घा उद्देष्टुं वा धारयितुं पा ॥ सू० १७ ॥ भाष्यम्-'थेराणं' स्थविराणाम्-ये ज्ञान-दर्शन-चारित्रे सीदतामिहलोकपरलोकाऽपायं प्रदर्य तान् संयमे संस्थापयन्ति तेषाम्-श्रुतस्थविराणां षष्टिवर्षाणां वा 'थेरभूमिपत्ताणं' स्थविरभूमिप्राप्तानाम्-आचार्यपदप्राप्तानाम् 'आयारपकप्पे नाम अज्झयणे परिभट्टे सिया'-आचारप्रकल्पो नामाध्ययनम्-आचाराङ्गनिशीथसूत्रादिकं परिभ्रष्ट-नष्ट-विस्मृतं स्यात्भवेत् 'कप्पइ तेर्सि' कल्पते तेषां स्थविराणां स्थविरभूमिप्राप्तानाम् 'संठवेत्ताण वा' संस्थापयतां पुनरधीत्य संस्मरताम् 'असंठवेत्ताण वा' असंस्थापयतां पुनरसंस्मरतां वा 'आयरियत्तं जाव गणावच्छेययत्तं वा-आचार्यत्वं वा उपाध्यायत्वं वा प्रवर्तकत्वं वा स्थविरत्वं वा गणित्वं वा गणधरत्वं वा गणावच्छेदकत्वं वा 'उद्दिसित्तए वा' उद्देष्टुमनुज्ञातुं वा, जीर्णत्वमहत्त्वकारणेन तेषां सूत्रधारणायाः सामर्थ्याभावात् 'धारितए वा' स्वयं धारयितुं वा । स्थविरविषये अत्र चतुर्भङ्गी यथा... जीणों नो महान् , यस्तरुण एव सन् जरया परिणतः, इत्येकः १ . नो जीर्णः किन्तु महान्, यो वृद्धोऽपि सन् दृढशरीर इति द्वितीयः २। ... जीर्णोऽपि च महानपि चेति तृतीयः ३ । नो जीर्णो नो महान् इति चतुर्थः ४। ..मयं चतुर्थो भङ्गः शून्यः । शेषाणां तु त्रयाणामेकतरो न शक्नोति संस्थापयितुमिति तस्याचारप्रकल्पो नामाध्ययनं परिभ्रष्टं भवेदिति. कल्पेत तादृशस्यासंस्थापनेऽपि माचार्यादि• पदमुद्देष्टु वा धारयितुं वेति ॥ सू० १७ ॥.. ... सूत्रम्-थेराणं थेरभूमिपत्ताण आयरपकप्पे गाम अज्झयणे परिभट्टे सिया कप्पइ तेसिं संनिसण्णाण वा संतुयधाण वा उत्ताणयाण वा पासल्लियाण वा आयारपकप्पे नाम अज्ययणे दोच्चंपि तच्चपि पडिपुच्छित्तए वा पडिसारेत्तए वा ॥सू०१८॥
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy