________________
१३८
"तिवरिसा होइ नवा, तरुणी य जाव जुवई,
अट्ठारसिया य डहरिया होई । चत्तालिसिया य वा तरुणी" ॥१॥
छाया -- त्रिवर्षा भवति नवा, अष्टादशिकाच डहरिका भवति ।
तरुणी च यावद युवतिः, चत्वारिंशा च वा तरुणी ॥ १ ॥
व्यवहारस्त्रे
तस्याः 'आयरपकप्पे णामं अज्झयणे' आचारप्रकल्पो नामाऽध्ययनम् आचाराङ्ग निशीथादिकम् 'परिब्भट्ठे सिया' परिभ्रष्टं स्यात् अधीतमाचारप्रकल्पाऽध्ययनम् विस्मृतं भवेत्तदा 'साय पुच्छियव्वा' सा चाऽधीतविस्मृता संयती स्थविरेण प्रष्टव्या - 'केण ते कारणेण अज्जे !' हें आर्ये ! केन खलु कारणेन ते तव, 'आयारप कप्पे नामं अज्झयणे परि०भट्ठे' आचारप्रकल्पो नामाध्ययनं परिभ्रष्टम् - अधीतमाचारप्रकल्पाsध्ययनं त्वया विस्मृतं केन कारणेन विस्मृतमिति पृच्छेदि - त्यर्थः । तत्र कारणमेव विविच्य पृच्छति - किमित्यादि, 'किं आबाहेणं उदाहु पमाएणं' किमाबाधेन—रोगादिकारणेन उताहो - यद्वा प्रमादेन विस्मृतमिति । एवं पृष्टा सती - 'साय वएज्जा' साच वदेत् - 'नो आबाहेणं पमाएणं' नो आबाधेन रोगादिकारणेन किन्तु प्रमादेन मयाऽधीतमपि-आचारप्रकल्पाध्ययनं विस्मृतमिति, एवं कथिते सति 'जावज्जीवाए' जावज्जीवं - जीवन - पर्यन्तमित्यर्थः तस्या विस्मृतकल्पाऽध्ययनायाः श्रमण्याः 'तप्पत्तियं' - तत्प्रत्ययं प्रमादतो विस्मरणनिमित्तम् 'नो कप्पइ' नो कल्पते 'पवत्तिणीत्तं वा' प्रवर्त्तिनीत्वं वा 'गणावच्छेणित्तं वा ' गणावच्छेदिनीत्वं वा 'उद्दिसित्तए वा धारितए वा' उद्देष्टुमनुज्ञातुं वा स्वयं धारयितुं वा एतादृश्याः पुनः प्रवर्त्तिनीपदस्याऽनुज्ञापनं न कर्त्तव्यमाचार्येण न वा सा स्वयमेव पुनः प्रवर्त्तिनीत्वं गणावच्छेदिनीत्वं वा धारयितुं शक्नोतीति । 'सा य वएज्जा' अथ यदि सा संयती एवं वदेत्–हे भदन्त ! मया 'आबाहेण नो पमाएणं' आबाधेन रोगादिना अधीतमपि पुनविस्मृतम्, नतु प्रमादेन विस्मृतमिति 'साय संठवेस्सामीति संठवेज्जा' सा च संयती विस्मृतमध्ययनं संस्थापयिष्यामि - पुनरपि स्मरिष्यामीति कथयित्वा संस्थापयेत् - पुनरपि संस्मरेत् ' एवं से कप्पइ' एवं प्रकारेण पुनः स्मृतेऽध्ययने सति तस्याः कल्पते 'पवत्तिणीत्तं वा गणावच्छेइणित्तं वा' प्रवर्त्तिनीत्वं वा गणावच्छेदिनीत्वं वा 'उद्दिसित्तए वा धारितए वा' उद्देष्टुमनुज्ञातुं वा स्वयं धारयितुं वा । अथ कदाचित् नष्टमध्ययनम् 'सा य संठवेस्सामीति नो संटवेज्जा' संस्थापयिष्यामीति कथयित्वा नो संस्थापयेत् न तस्य संस्मरणं कुर्यात् ' एवं से नो कप्पइ पवत्तिणीत्तं वा गणा - वच्छेणित्तं वा उद्दिसित्तर वा धारित्तए वा' एवं तहिं तस्याः संयत्याः नो कल्पते प्रवत्तिनीत्वं वा गणावच्छेदिनीत्वं वा उद्देष्टुमनुज्ञातुं वा स्वयं धारयितुं वा ॥ सू० १६ ॥
9
पूर्वं नवडहरतरुण निर्गन्थनिर्ग्रन्थीनाम् आचारप्रकल्पाऽध्ययनं प्रमादतो विस्मरणेन असंस्थापनेन च यावज्जीवं पददानाऽभावः प्रतिपादितः अस्मिन् सूत्रे तु स्थविराणां स्थविरभूमिप्रा