SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ भाष्यम् ० ५ सू० १६ निर्ग्रन्ध्या आचारप्रकल्पे नष्टे पददानाऽदानविधिः १३७ माचारकल्पाध्ययनं पुनः स्मरिष्यामीति कथयित्वा यदि संस्थापयेद् विस्मृतं पुनरपि संस्मरेत् ' एवं से कप्प' एवं प्रकारेण पुनः स्मृते आचारकल्पाध्ययने सति तस्य कल्पते 'आयरियत्तं वा जाव गणावच्छेययत्तं वा' आचार्यत्वं वा याबद् गणावच्छेदकत्वं वा 'उद्दिसित्तए वा धारितए वा' उद्देष्टुं वा धारयितुं वा कल्पते इति सम्बन्धः 'से य' स च यदि 'संठवेस्सामीति नो संठवेज्जा' संस्थापयिष्यामीति कथयित्वा नो संस्थापयेत् तदा 'एवं से नो कप्पइ' एवं संस्मरणाभावे तस्य नो कल्पते 'आयस्यित्तं वा जाव गणावछेययत्तं वा' आचार्यत्वं वा यावद् गणावच्छेदकत्वं वा 'उद्दिसितर वा धारित वा' उद्देष्टुं वा धारयितुं वेति ॥ सू० १५ ॥ निर्मन्थसूत्रमभिधाय सम्प्रति निर्ग्रन्थीसूत्रमाह – 'निग्गंथीए णं' इत्यादि । सूत्रम् - णिग्गंथीए णं नक्डहरतरणीए आयारपकप्पे नामं अज्झयणे परिभट्ठे सिया, साय पुच्छ्रियव्वा केणं ते कारण अज्जे ! आयारपकप्पे नामं अज्झयणे परिब्भट्ठे किं वाणं उदाहु पमाएं ? सा य वएज्जा नो आबाहेणं पमाएणं, जावज्जीवाए तीसे तप्पत्तियं नो कप्पर पवतिणितं वा गणावच्छेइणित्तं वा उद्दित्तिए वा धारितए वा, साय वएज्जा - आवाहाणं नो पमाणं सा य संठवेस्सामित्ति संठवेज्जा एवं से कप्पइ पवत्तिणितं वा मणावच्छेइणित्तं वा उद्दिसित्तए वा धारितए वा, साय संठवेस्सामीति नो सठबेज्जा एवं से नो कप्पर पवत्तिणित्त वा गणावच्छेइणित्तं वा उद्दिसित्तए वा धारिए वा ॥ सू० १६ ॥ छाया -निर्ग्रन्ध्याः खलु नवडहरतरुण्याः आचारप्रकल्पो नामाऽध्ययनं परिभ्रष्ट स्यात् सा च प्रष्टव्या - केन ते कारणेन आयें ! आचारप्रकल्पो नामाऽध्ययनं परिभ्रष्टम् ? किम् आबाधेन उताहो प्रमादेन ? सा च वदेत् नो आबाधेन प्रमादेन, यावज्जीवं तस्यास्तत्प्रत्ययं नो कल्पते प्रवर्तिनीत्वं वा गणावच्छेदिनीत्वं वा उद्देष्टुं वा धारयितुं वा । सा च वदेत् आबाधेन नो प्रमादेन सा च संस्थापयिष्यामीति संस्थापयेत् एवं तस्याः कल्पते प्रवत्तिनीत्वं वा गणावच्छेदिनीत्वं वा उद्देष्टुं वा धारयितुं वा, सा च संस्थापयिष्यामीति नो संस्थापयेत् एवं तस्याः नो कल्पते प्रवर्त्तिनीत्वं वा गणावच्छेदिनीत्वं वा उद्देष्टु वा धारयितुं वा ॥ सू० १६ ॥ भाष्यम् – 'णिग्गंथीए णं' निर्ग्रन्ध्याः खलु श्रमण्याः 'नवडहरतरुणीए' नवडहरतरुण्याः तत्र नवदीक्षिता नवा त्रिवर्षात्मक दीक्षापर्यायवती, डहरा - जन्मपर्यायेण अष्टादशवार्षिका, तरुणी-अधिगतयुवावस्था, जन्मतश्चत्वारिंशद्वर्षिका वा, उक्तञ्च - व्य. १५
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy