________________
व्यवहारसूत्रे नो कल्पते आचार्यत्वं वा यावद्गणावच्छेदकत्वं वा उद्देष्टुं वा धारयितुं वा । स च वदेत्आबाधेन, नो प्रमादेन, स च-संस्थापयिष्यामीति संस्थापयेत् , एवं तस्य कल्पते आचार्यत्वं वा यावद्गणावच्छेदकत्वं वा उद्देष्टुं वा धारयितुं वा, स च-संस्थापयिष्यामीति नो संस्थापयेत् एवं तस्य नो कल्पते आचार्यत्वं वा यावद्गणावच्छेदकत्वं वा उद्देष्टुं वा धारयितुं वा ॥ सू० १५॥
भाष्यम्-'निग्गंथस्स' निर्ग्रन्थस्य श्रमणस्य 'नवडहरतरुणस्स' नवडहरतरुणस्य, तत्र नवः-दीक्षापर्यायेण त्रिवार्षिकः, डहरः-जन्म-पर्यायेण षोडशवार्षिकः, तरुणः-चतुश्चत्वारिंशद्वार्षिकः उक्तञ्च-"तिवरिसो होइ नवो, आसोलसगं डहरगं बेंति ।
तरुणो चउचत्तालो, मज्झिमो थेरओ सेसो ॥१॥ ___ छाया--त्रिवर्षों भवति नवः, आषोडशकं डहरकं अवन्ति ।
तरुणश्चतुश्चत्वारिंशत्को मध्यमः स्थविरः शेषः ॥१॥ इति । तस्य तादृशस्य निर्ग्रन्थस्य यदि 'आयारपकप्पे नामं अज्झयणे' आचारप्रकल्पो नामा. ध्ययनम्-आचाराङ्गनिशीथादिसूत्रम् 'परिभढे सिया' परिभ्रष्ट-पटितं सद् विस्मृतं स्यात् तदा 'सेय पुच्छियव्वे' स च अधीतविस्मृतो निर्ग्रन्थः स्थविरेण प्रष्टव्यः, किं प्रष्टव्यस्तत्राह-'केण ते कारणेणं अज्जो' हे आर्य ! ते तव केन कारणेन 'आयारपकप्पे नामं अज्झयणे परिब्भटे'-आचारप्रकल्पो नामाध्ययनं परिभ्रष्टं-त्वया विस्मृतम् !, किं कारणमाश्रित्य त्वयाऽऽचारप्रकल्पाध्ययनं विस्मृतमिति पृच्छेदित्यर्थः। तत्र कारणमेव विविच्य पृच्छति-किमित्यादि, 'कि आबाहेण उदाहु पमाएणं' किम् आबाधेन-रोगादिकारणेन विस्मृतम् ? उताहो-अथवा किं प्रमादेन-आत्मनः प्रमादभावेन विस्मृतम् !। एवं स्थविरेण पृष्टः सन् ‘से य वएज्जा' स च श्रमणो वदेत्-कथयेत् हे भदन्त ! 'नो आबाहेणं पमाएणं' आबाधेन रागादिकारणेन नो विस्मृतं किन्तु प्रमादेन आत्मनः प्रमादभावेन विस्मृतम् । एवं कथिते सति 'जावज्जीवाए तस्स' यावज्जीव-जीवनपर्यन्तं तस्य श्रमणस्य 'तप्पत्तियं' तत्प्रत्ययं प्रमादतो विस्मरणनिमित्तं 'नो कप्पई' नो कल्पते 'आयरियत्तं वा जाव गणावच्छेययत्तं वा' आचार्यत्वं वा यावत् उपाध्यायत्वं वा प्रवर्तकत्वं वा स्थविरत्वं वा गणित्वं वा गणधरत्वं वा एवं गणावच्छेदकत्वं वा 'उदिसित्तए वा' उद्देष्टुं वा अनुज्ञातुम् 'धारित्तए वा' स्वयं धारयितुं वा न कल्पते इति पूर्वेण सम्बन्धः ।
___ अथ कदाचित् ‘से य वएज्जा' स च वदेत्-हे भदन्त ! अधीतमाचारकल्पो नामाध्ययनं मया 'आबाहेणं णो पमाएणं' आबाधेन-रोगादिकारणेन विस्मृतं किन्तु नो प्रमादेन प्रमादभावमाश्रित्य नो विस्मृतमिति, 'से य संठवेस्सामीति संठवेज्जा' स च संस्थापयिष्यामि विस्मृत