________________
भाष्यम् उ० ५ ० ९-१० बहुप्रवत्तिन्यादीनां हेमन्तपोष्मवर्षावासनिवासविधिः १३१
___ अत्र द्वितीयचतुर्थसूत्रयोरयं भावः- संयतीनां ऋतुबद्धकाले सप्तकः समाप्तकल्प इति ऋतुबद्धकाले प्रवर्त्तिन्या आत्मतृतीयायाः गणावच्छेदिन्याश्चाऽऽत्मचतुर्थाया विहरणं कल्पते इत्युक्त तत् ऋतुबद्धकाले प्रवर्तिनीगणावच्छेदिन्योः सप्तकरूपस्य समाप्तकल्पस्य सद्भावादुक्तम् ।
षष्टाष्टमसूत्रयोरयं भावः-संयतीनां वर्षाकाले नवकः समाप्तकल्पो भवतीति वर्षाकाले प्रवर्तिन्या आत्मचतुर्थायाः, गणावच्छेदिन्याश्चात्मपञ्चमायाः स्थातुं कल्पते इत्युक्तं तत् नवकरूपस्य समाप्तकल्पस्य सद्भावादुक्कमिति ।। मू० ८ ॥
अथ प्रवर्तिनी गणावच्छेदिनीनां बहुत्वमधिकृत्य हेमन्तग्रीष्मकाले प्रामादिषु विहरणविधिमाह'से गामंसि वा' इत्यादि।
मूत्रम्-से गामंसि वा नगरंसि वा निगमंसि वा रायहाणीए वा खेडंसि वा कब्बडंसि वा मडंबंसि वा पट्टणं सि वा दोणमुहंसि वा आसमंसि वा संवाहंसि वा संमिवेसंसि वा बहूणं पवत्तिणीणं अप्पतइयाणं, बहूणं गणावच्छेइणीणं अप्पचउत्थीणं कप्पइ हेमंतगिम्हासु चारए अन्नमन्ननिस्साए ॥ सू० ९॥
छाया-अथ ग्रामे वा नगरे वा निगमे वा राजधान्यां वा खेटे वा कर्बटे वा मडम्बे वा पत्तने वा द्रोणमुखे वा आश्रमे वा संबाहे वा संनिवेसे वा बहूनां प्रवर्तिनीनाम् आत्मतृतीयानाम्, बहूनां गणावच्छेदिनीनामत्मचतुर्थानां कल्पते हेमन्तग्रीष्मयोश्चरितु. मन्योऽन्यनिश्रया ॥ सू०९॥
भाष्यम्--'से गामंसि वा' इति । 'से' अथानन्तरम् एकेकस्याः प्रवर्त्तिन्याः ऋतुबद्धकाले विहरणप्रतिषेध-विधिकथनानन्तरम् 'गामंसि वा' ग्रामे वा 'नगरंसि वा' नगरे वा 'निगमंसि वा' निगमे वा 'रायहाणीए वा' राजधान्यां वा 'खेडंसि वा' खेटे वा 'कब्बडंसि वा' कर्बटे वा 'मडंबंसि वा' मडम्बे वा 'पत्तणंसि वा' पत्तने वा पट्टने वा 'दोणमुहंसि वा' द्रोणमुखे वा 'आसमंसि वा' आश्रमे वा 'संबाहंसि वा' संबाहे वा 'संनिवेसंसि वा' संनिवेशे वा चतुर्थोदेशकनवमसूत्रोक्तार्थविशिष्टेषु प्रामादिषु 'बहूणं पवत्तिणीणं' बहूनामनेकासाम् एकद्वित्रिप्रभृतीनां प्रवर्तिनीनां 'अप्पतइयाणं' आत्मतृतीयानां सहायकद्वययुक्तानाम् । 'बहूणगणावच्छेइणीणं' बहूनामनेकासाम् एकद्वित्रिप्रभृतीनां गणावच्छेदिनीनाम् 'अप्पचउत्थीणं' आत्मचतुर्थानाम् आत्मना च चतुःसंख्यायुक्तानाम् 'कप्पइ हेमंतगिम्हासु' कल्पते हेमन्तग्रीष्मयोः ऋतुबद्धकाले इत्यर्थः 'चारए' चरितुं विहर्तुम् तच्च 'अन्नमन्ननिस्साए' अन्योऽन्यनिश्रया परस्परोपसंपदा परस्परं समानतया मिलित्वा पर्यायज्येष्ठां पुरस्कृत्य ततस्तदाज्ञया विहत्तुं कल्पते तासामित्यर्थः। यदा खलु अनेकाः प्रवर्तिन्यो आत्मतृतीया आत्मतृतीयाः सर्वाः, अनेका गणा