SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्र वच्छेदिन्य आत्मचतुर्थाः आत्मचतुर्थाः सर्वाः, तदा सर्वा अपि पर्यायज्येष्ठाया उपसम्पत्त्वेन परस्परं मिलित्वा ऋतुबद्धकाले विहारं कर्तुं शक्नुवन्तीति भावः ॥ सू० ९ ॥ अथ आत्मचतुर्थानां बहूनां प्रवर्तिनीनाम् आत्मपञ्चमानां बहूनां गणावच्छेदिनीनां वर्षासमये वासानुज्ञां दर्शयति-से गामंसि वा' इत्यादि । सूत्रम्-से गामंसि वा नगरंसि वा निगमंसि वा रायहाणीए वा खेडंसि वा कब्बडं सि वा मडंबंसि वा पट्टणंसि वा दोणमुहंसि वा आसमंसि वा संबाहंसि वा संनिवेसंसि वा बहूणं पवत्तिणीणं अप्पचउत्थीणं, बहूणं गणावच्छेइणीणं अप्पपंचमाणं कप्पइ वासावासं वत्थए अन्नमन्ननिस्साए ॥ सू० १० ॥ छाया-अथ ग्रामे वा नगरे वा निगमे वा राजधान्यां वा खेटे वा कर्बटे वा मडम्बे वा पत्तने वा द्रोणमुखे वा आश्रमे वा संबाहे वा संनिवेशे वा बहूनां प्रवर्तिनीनामात्मचतुर्थानाम्, बहूनां गणावच्छेदिनीनामात्मपञ्चमानां कल्पते वर्षावासं वस्तुमन्योन्यनिश्रया । सू० १० ॥ भाष्यम्-'से गामंसि वा' अथ ग्रामे वा 'नगरंसि वा' नगरे वा 'निगमंसि वा' निगमे वा 'रायहाणीए वा' राजधान्यां वा 'खेडंसि वा' खेटे वा 'कब्बडंसि वा' कर्बटे वा 'मडबसि वा' मडम्बे वा 'पट्टणंसि वा' पत्तने वा पट्टने वा 'दोणमुहंसि वा द्रोणमुखे वा 'आसमंसि वा' आश्रमे वा 'संबाहंसि वा' संबाहे वा 'संनिवेसंसि वा' सन्निवेशे वा अत्राऽपि 'गामंसि वा' इत्यारभ्य 'सनिवेसंसि वा' इत्यन्तपदानामाः विस्तरतः चतुर्थोंदेशके नवमसूत्रे प्रदर्शिताः तादृशेषु प्रामादिषु इत्यर्थः 'बहूणं पवत्तिणीणं अप्पचउत्थाणं' बहूनामनेकासां प्रवर्तिनीनामात्मचतुर्थानां, तथा 'बहूर्ण गणावच्छेइणीणं अप्पपंचमाणं' बहूनामनेकासां गणावच्छेदिनीनामात्मपञ्चमानाम् 'कप्पइ वासावासं वत्थए' कल्पते वर्षावासं वस्तुम् अन्योऽन्यनिश्रया परस्परोपसंपदा लघुज्येष्ठपर्यायमर्यादया परस्परं मिलित्वा तासामनेकासां प्रवर्तिनीगणावच्छेदिनीनां वर्षावासे वस्तुं कल्पते ॥ सू० १०॥ पूर्व संयत्या ऋतुबद्धकालविहरणविधिः वर्षावासविधिश्च प्रदर्शितः, विहरन्न्याश्च तस्याः प्रवर्तिनी कदाचित् कालधर्म प्राप्नुयात् तदा किं कर्त्तव्यमिति तद्विधि प्रदर्शयति-'गामाणुगाम दूइज्जमाणा' इत्यादि । - सूत्रम्--गामाणुगाम दुइज्जमाणा णिग्गंथी य जं पुरओ काउं विहरेज्जा सा य आहच्च वीसंभेज्जा अत्थि य इत्थ काइ अन्ना उवसंपज्जणारिहा सा उपसंपज्जियव्वा, नत्थि य इत्थ काइ अन्ना उवसंपज्जणारिहा तीसे य अप्पणो कप्पए असमत्ते एवं से
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy