________________
व्यवहारमा वार्स कर्तुम् । यदा खेलु प्रवर्तिनी आत्मचतुर्थी भवति सदैव तस्या चातुर्मास्यं कर्तुं कल्पते न तु तन्यूनाया इति भावः ॥ सू० ६ ॥
गणावच्छेदिन्या वर्षावाससूत्रद्वये प्रथमं निषेधसूत्रमाह--'नो कप्पइ' इत्यादि । सूत्रम्--नो कप्पइ गणावच्छेइणीए अप्पचंउत्थीए वासावासं वत्थए ॥ सू० ७॥ छाया- नो कल्पते गणावच्छेदिन्याः आत्मचतुर्थायाः वर्षावास वस्तुम् ॥ सू० ७॥
भाष्यम्- 'नो कप्पई' नो कल्पते 'गणावच्छेइणीए अप्पचउत्थीए' गणावच्छेदिन्याः आत्मचतुर्थायाः आत्मना सह चतुःसंख्यकायाः 'वासावास वस्थए' वर्षावासं वस्तुं वासं कर्तुम् यदा खलु गणावच्छेदिनी चतुःसंख्याविशिष्टा भवेत् तदा तस्या वर्षाकाले वासो कल्पनीयो भवतीति भावः ॥ सू० ७॥
अथ द्वितीयं गणावच्छेदिन्या वर्षावासे विधिमाह-कंप्पइ' इत्यादि । सूत्रम्-कप्पइ गणावच्छेइणीए अप्पपंचमाए वासावासं वत्थए ॥ सू० ८ ॥ छाया - कल्पते गणावच्छेदिन्याः आत्मपञ्चमायाः वर्षावासं वस्तुम् ।। सू० ८।
भाष्यम्--'कप्पई' कल्पते 'गणावच्छेइणीए' गणावच्छेदिन्याः 'अप्पपंचमाए' आत्मपञ्चमायाः आत्मना स्वेन सह पञ्चत्वसंख्याविशिष्टायाः 'वासावासं वत्थए' वर्षावासं वर्षाकालं यावत् वस्तुं वास कत्तुम् । यदा खलु गणावच्छेदिनी आत्मपञ्चमा भवेत् तदैव वर्षाकाले वासं कर्तुं शक्नोति न तु ततो न्यूना।
इदमुक्तं भवति-एषु अष्टसु सूत्रेषु प्रथमं सूत्रं प्रवर्त्तिन्या हेमन्तग्रीष्मयोरात्मद्वितीयाया विहरणनिषेधपरकम् १। द्वितीयमात्मतृतीयाया विहरणविधिपरकमिति प्रवर्तिनीमधिकृत्य हेमन्तग्रीष्मविषयकं सूत्रद्वयम् २ । तृतीयं सूत्रं गणावच्छेदिन्या आत्मतृतीयाया हेमन्तग्रीष्मयोर्विहरणनिषेधपरकम् ३ । चतुर्थ सूत्रमात्मचतुर्थाया विहरणविधिपरकमिति गणावच्छेदिनीमधिकृत्य हेमन्तग्रीष्मविषयकं सूत्रद्वयम् ४ । पञ्चमं सूत्र प्रवर्त्तिन्या आत्मतृतीयायाः वर्षावासनिषेधपरकम् ५। षष्ठमात्मचतुर्थाया वर्षावासविधिपरकमिति प्रवर्तिनीमधिकृत्य वर्षावासविषयकं सूत्रद्वयम् ६ । सप्तमं सूत्रं गणावच्छेदिन्या आत्मचतुर्थाया वर्षावासनिषेधपरकम् ७ । अष्टमं चात्मपञ्चमाया वर्षावासविधिपरकमिति गणावच्छेदिनीमधिकृत्य वर्षावासविषयकं सूत्रद्वयम् ८। इत्यष्टानां सूत्राणां निष्कर्षः ॥