________________
wwwwwwwvvv
भाष्यम् उ०५०३-८
साध्वीनां हेमन्तग्रीष्मवर्षावासनिवासविधिः १२१ सूत्रम्-नो कप्पइ गणावच्छेइणीए अप्पतइयाए हेमन्तगिम्हासु चारए ॥ सू०३॥ छाया--नो कल्पते गणावच्छेदिन्याः आत्मतृतीयायाः हेमन्तग्रीष्मयोश्चरितुम् ॥ सू०३।
भाष्यम्--'नो कप्पइ' नो कल्पते 'गणावच्छेइणीए' गणावच्छेदिन्याः 'अप्पतइयाए' आत्मतृतीयायाः सहायिकाद्वययुक्तायाः हेमंतगिम्हासु' हेमन्तग्रीष्मयोः शेषकाले इत्यर्थः 'चारए' चरितुं विहर्तुम् । सहायिकाद्वयायुक्ताऽपि गणावच्छेदिनी हेमन्ते ग्रीष्मे च विहत्तुं न शक्नोति इति भावः ॥ सू० ३ ॥
गणावच्छेदिन्याः कथं कल्पते ? इत्याह–'कप्पइ' इत्यादि । सूत्रम्--कप्पइ गणावच्छेइणीए अप्पचउत्थीए हेमंतगिम्हासु चारए ॥ सू० ४॥ छाया-कल्पते गणावच्छेदिन्याः आत्मचतुर्थायाः हेमन्तग्रीष्मयोश्चरितुम् ॥ सू०४॥
भाष्यम्--'कप्पड़ गणावच्छेइणीए' कल्पते गणावच्छेदिन्याः 'अप्पचउत्थीए' आत्मचतुर्थायाः आत्मना स्वेन चतुर्थसंख्याविशिष्टायाः सहायकश्रमणीत्रयसहितायाः 'हेमन्तगम्हासु' हेमन्तग्रीष्मयोः 'चारए' चरितुं विहर्तुम् । यदा खलु गणावच्छेदिनी आत्मना सह चतुर्थसंख्याविशिष्टा भवेत् एका स्वयम् सहचारिण्यस्तिस्रस्तदा गणावच्छेदिन्या हेमन्तग्रीष्मकाले तस्याः विहारः कल्पते इति भावः ॥ सू० ४ ॥
अथ प्रवर्त्तिन्या वर्षावाससूत्रद्वये प्रथमनिषेधसूत्रमाह--'नो कप्पइ' इत्यादि । सूत्रम्--नो कप्पई पवत्तिणीए अप्पतइयाए वासावासं वत्थए ॥ सू० ५॥ छाया--नो कल्पते प्रवर्तिन्या आत्मतृतीयायाः वर्षावासं वस्तुम् ॥ सू० ५॥
भाष्यम्--'नो कप्पइ' नो कल्पते 'पवत्तिणीए अप्पतइयाए' प्रवर्त्तिन्याः आत्मतृतीयायाः आत्मना सह तृतीयायाः एका स्वयम् द्वे च सहकारिण्यौ एतादृश्याः 'वासावासं' वर्षावासं वर्षाकाले 'वत्थए' वस्तु वासं कर्तुम् आत्मतृतीयायाः प्रवर्त्तिन्या वर्षासमये वासं कत्तुं न कल्पते इति भावः ॥ सू० ५॥
अथ द्वितीयं प्रवर्त्तिन्या वर्षावासे विधिसूत्रमाह- 'कप्पई' इत्यादि । सूत्रम्--कप्पइ पवत्तिणीए अप्पचउत्थीए वासावासं वत्थए ॥ सू० ६॥ छाया- कल्पते प्रवत्तिन्या आत्मचतुर्थायाः वर्षावासं वस्तुम् ॥ सू० ६॥
भाष्यम् --'कप्पइ' कल्पते 'पवत्तिणीए अप्पचउत्थाए' प्रवर्त्तिन्याः आत्मचतुर्थायाः आत्मना स्वेन सह चतुर्थसंख्याविशिष्टायाः 'वासावासं वत्थए' वर्षावासे चातुर्मास्ये वस्तुं