________________
॥ अथ पञ्चमोद्देशः प्रारभ्यतेव्याखातश्चतुर्थोद्देशकः, सम्प्रति पञ्चमोद्देशको व्याख्यायते, तत्र पूर्व चतुर्थोदेशकस्य चरमसप्तसूत्र्यामेकतो विहरतां भिक्षुप्रभृतीनां यथारात्निकमर्यादा प्रतिपादिता । अत्र पञ्चमोदेशक प्रवर्तिनीप्रमृतीनां ऋतुबद्धकालविहरणवर्षाकालनिवासपरकां मर्यादामाह-तत्र भाष्यकारो द्वयोरुद्देशयोः सम्बन्धप्रतिपादनार्थ गाथामाह-'एगविहारे' इत्यादि । गाथा-एगविहारे वुत्ता, भिक्खुयमाईण वसणमज्जाया ।
उउबद्धाइसु वुच्चइ, पवत्तिणीए य सा चेव ॥ १ ॥ छाया- एकविहारे प्रोक्ता, भिक्षुकादीनां वसनमर्यादा ।
ऋतुबद्धादिषु प्रोच्यते, प्रवतिन्याश्च सैव ॥ १॥ भाष्यम्--पूर्वम् ‘एगविहारे' इति एकतो विहारे एकत्र संमील्य विहरणे भिक्षुकादीनां भिक्षकगणावच्छेदकाचार्योपाध्यायानां वसनमर्यादा यथारात्निकत्वेन एकत्र वासमर्यादा प्रोका, अत्र निर्ग्रन्थानन्तरं निर्ग्रन्थीनां प्रसङ्ग इति पञ्चमोद्देशके ऋतुबद्धादिषु ऋतुबद्धकाले हेमन्तग्रीष्मयोर्विहरणे आदिशब्दाद् वर्षावासे च प्रवर्तिन्याश्च प्रवर्तिन्याः चकाराद् गणावच्छेदिन्याश्च सैवेत्ति मर्यादा विहरणस्य निवासस्य च मर्यादा प्रोच्यते, एष एव चतुर्थोदेशकान्तिमसूत्रैः सहास्य पञ्चमोदेशकादिसूत्राणां सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य पञ्चमोद्देशकस्येदमादिमं सूत्रम्-'नो कप्पइ पवित्तिणीए' इत्यादि ।
सूत्रम्--नो कप्पइ पवत्तिणीए अप्पबिइयाए हेमंतगिम्हासु चरिए ॥ सू० १॥ छायानो कल्पते प्रवर्तिन्या आत्मद्वितीयायाः हेमन्तग्रीष्मयोश्चरितुम् ॥ सू० १॥
भाष्यम्--'नो कप्पई' नो नैव कल्पते 'पवत्तिणीए' प्रवर्त्तिन्याः प्रवर्तिनीपदधारिण्याः श्रमण्याः 'अप्पबिइयाए' आत्मद्वितीयायाः आत्मना स्वेन सह द्वितीयायाः 'हेमन्तगिम्हासु' हेमन्तग्रीष्मयोः हेमन्तकाले ग्रीष्मकाले चाष्टमासरूपे 'चरिए' चरितुं विहर्तुम् ।। सू० १॥
कथं कल्पते ? तत्राह- 'कप्पई' इत्यादि । सूत्रम्--कप्पइ पवत्तिणीए अप्पतइयाए हेमन्तगिम्हासु चारए । सू० २॥ छाया- कल्पते प्रवर्त्तिन्या आत्मतृतीयायाः हेमन्तग्रीष्मयोश्चरितुम् ॥ सू० २॥
भाष्यम्--'कप्पइ पवत्तिणीए' कल्पते प्रवर्तिन्याः 'अप्पतइयाए' आत्मतृतीयायाः मात्मना सह त्रित्वसंख्याविशिष्टायाः एका स्वयम् द्वे च सहकारिण्यौ इत्यर्थः तादृश्यास्तस्याः 'हेमन्तगिम्हास' हेमन्तग्रीष्मयोः 'चारए' चरितुम् ॥ सू० २॥