________________
भाष्यम् उ० ४ सू० २३-२५
धर्मद्वयस्यैकत विहरणविधिः १२३
अथ यदि चरिकाप्रविष्टसूत्रद्वयवदेव चरिकिानिवृत्तसूत्रद्वयमपि वर्त्तते तदा किमर्थमनयोः सूत्रयोः पृथगुपादानं क्रियते चरिका प्रविष्टसूत्राभ्यामेव अनयोश्च रिकानिवृत्तसूत्रयोर्गतार्थत्वात् यतो यैव चरिकाप्रविष्टानां श्रमणानां सामाचारी सैव सामाचारी चरिकानिवृत्तानां साधूनामपीति । अत्रोच्यते - केवलमुच्चारिते चरिकाप्रविष्टसूत्रद्वये, अनुच्चारिते च चरिकानिवृत्तसूत्रद्वये यथैव प्रायश्चित्तदानसामाचारी चरिकाप्रविष्टानाम् सैव सामाचारी चरिकानिवृत्तानामपीत्यर्थो न लभ्यते एतादृशार्थप्रतिपादकसूत्रपदाऽभावात्, पदेन हि पदार्थों ज्ञायते पदाऽभावे पदार्थज्ञानस्यासंभवात् ततः सूत्रद्वयमुच्चार्य यैव सामाचारी चरिकाप्रविष्टानां सैव सामाचारी चरिकानिवृत्तानामपीति बोधनाय चरिकानिवृत्तसूत्रद्वयं निहितम्, अन्यथा - एतत्सूत्रद्वयाभावे चरिकानिवृत्तानामन्यैव कापि सामाचारीति कल्प्येत ततः कल्पनान्तरं मा भूदित्येवमर्थ चरिकानिवृत्तसूत्रद्वयमिति ॥ सू० २३ ॥
"
सूत्रम् - दो साहम्मिया एगयओ विहरंति तं जहा सेहो रायणिए य, तत्थ सेहत ए पलिच्छन्ने रायणिए अपलिच्छन्ने, सेहतराएणं रायणिए उवसंपज्जियव्वे भिक्खोववायं च दलयइ कप्पागं ॥ सू० २४ ॥
छाया - द्वौ साधर्मिको पकतो विहरतः तद्यथा - शैक्षो रात्निकश्च तत्र शैक्षतर:परिच्छन्नः रत्निकोऽपरिच्छन्नः, शैक्षतरेण रात्निक उपसंपत्तव्यः भिक्षामुपपातंच ददाति कल्प्यकम् ॥ सू० २४ ॥
भाष्यम् – 'दो साहम्मिया' द्वौ साधर्मिकौ समानगुरुकुलौ सहाध्यायिनौ एकस्य गुरोरन्तेवासिनो 'एगओ विहरंति' एकतः सहैव द्वावपि विहरतः 'तंजहा' तद्यथा - 'सेहो रायणिए य' शैक्षकः पर्यायविद्यादिमिश्च न्यूनः रात्निकश्च रत्नाधिकः, 'तत्थ' तत्र तयोर्द्वयोः शैक्षरात्नि कयोर्मध्ये यः शैक्षतरः लघुपर्यायः सः 'पलिच्छन्ने' परिच्छन्नः द्रव्यपरिच्छदेन शिष्यादिना परिवृतः संयुक्तः तथा 'रायणिए अपलिच्छन्ने' रात्निको रत्नाधिकः अपरिच्छन्नः द्रव्यपरिवारेण शिष्यरूपेणाऽपरिच्छन्नः शिष्यपरिवाररहित इत्यर्थः, तत्र 'सेहतरएणं रायणिए उवसंपज्जियध्वे सिया' शैक्षतरकेण लघुपर्याय साधुना 'रायणिए' रात्निको रत्नाधिक उपसंपत्तव्यः स्यात् शैक्षतरको रत्नाधिकमुपसंपद्येत रत्नाधिकस्य परिवारत्वेन स्थातव्यमित्यर्थः तथा शैक्षतरः रत्नाधिकाय ' भिक्खोववायं च दलयइ कल्पागं' भिक्षामुपपातं ददाति कल्पाकम् शैक्षतरको रत्नाधिकस्य भिक्षाम् अशनादिचतुर्विधमाहारम् उपपातं समोपोपवेशनं विनयादिकं च ददाति, भिक्षादिकं सर्वमपि कल्पनीयं रत्नाधिकस्य ददाति तत्समीपे दैवसिकी रात्रिकी चालोचना कर्त्तव्या सर्वमपि विनयवैयावृत्त्यादिकं रत्नाधिकस्य कुर्यादिति भावः ॥ सू० २४ ॥
पूर्वसूत्रे शैक्षः परिवारसहितः रत्नाधिकश्च परिवाररहितः इति तयोर्द्वयोरेकत्र वासविधिः प्रदर्शितः, साम्प्रतं तद्वैपरीत्येन तयोरेकत्र वासविधिमाह - 'दो साहम्मिया' इत्यादि ।