________________
१२२
व्यवहार ततो गुरुणाऽभ्युपगते सति पश्चात् कायसंस्पर्शम् कायस्य चरणयुगललक्षणस्य शिरसा संस्पर्श करोति गुरोश्चरणद्वयं शिरसा वन्दते इत्यर्थः, अथवा कृतिकर्मादिषु आगमने गमने च यः कायसंस्पर्शः शरीरसंघट्टादिर्जातस्तमप्यनुजानीत गमनागमने च भवदासनादीनां संघट्टादिकं जातं तस्याऽपि क्षमा ददतु इत्यर्थः ॥ सू० २१ ॥
पूर्व चरिकाप्रविष्टस्य सूत्रद्वयेनाऽऽलोचनादिकं प्रोक्तम् , सम्प्रति चरिकानिवृत्तस्य सूत्रद्वयेनाऽऽलोचनादिकमाह-'चरियानियट्टे भिक्खू' इत्यादि ।
___ सूत्रम्-चरियानियट्टे भिक्खू जाव चउरायपंचरायाओ थेरे पासेज्जा सन्चेव आलोयणा सच्चेव पडिक्कमणा सच्चेव उग्गहस्स पुन्वाणुण्णवणा चिहइ आहालंदमवि उग्गहे ॥सू० २२॥
छाया-चरिकानिवृत्तो भिक्षुः यावत् चतूरात्रपञ्चरात्रात् स्थविरान् पश्येत् सैवा. ऽऽलोचना तदेव प्रतिक्रमणम् सैवाऽवग्रहस्य पूर्वाऽनुज्ञापना तिष्ठति यथालन्दमप्यवआहे ॥ सू० २२॥
भाष्यम्-'चरियानियट्टे भिक्खू' चरिकानिवृत्तो भिक्षुः यः साधुः स्थविराज्ञां विना गत्त्वा तत्स्थानतो निवृत्तः 'जाव चउरायपंचरायाओ' यावत् चतूरात्रपञ्चरात्रात् यावत्पदेन एकरात्रात् द्विरात्रात् त्रिरात्राद्वा परं इत्यस्य संग्रहो भवति । शेषं सर्वं चरिकाप्रविष्टविषयकविंशतितमसूत्रवदेव व्याख्येयम् ॥ सू० २२ ॥
अथ चरिकानिवृत्तविषयकं द्वितीयसूत्रमाह-'चरियानिय? भिक्खू' इत्यादि ।
सूत्रम् –चरियानियट्टे भिक्खू परं चउरायपंचरायाओ थेरे पासेज्जा पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयपरिहारस्स उवटाएज्जा भिक्खुभावस्स अट्टाए दोच्चंपि ओग्गहे अनुन्नवेयव्वे सिया, अणुजाणह भंते ! मिओग्गहं अहालंद धुवं नितियं नियच्छियं वेउट्टियं तओ पच्छा कायसंफासं ॥ सू० २३ ॥
__छाया-चारिकानिवृत्तो भिक्षुः परं चतूरात्रपञ्चरात्रात् स्थविरान् पश्येत् पुनरालोचयेत् पुनः प्रतिक्रमेत् पुनश्छेदपरिहारस्थोपतिष्ठेत् भिक्षुभावस्यार्थाय द्वितीयमपि अवग्रहः अनुज्ञातव्यः स्यात् अनुजानीत भदन्त ! मितमवग्रहं यथालन्दं ध्रुवं नियतं नैश्चयिकं व्यावृत्तम् ततः पश्चात् कायसंस्पर्शम् ॥ सू० २३ ॥
भाष्यम्- 'चरियानियट्टे भिक्खू' चरिकानिवृत्तो भिक्षुः आज्ञामन्तरेण अन्यगणे ग्रामानुग्रामविहारे वा गत्वा ततः प्रतिनिवृत्तो भिक्षुरित्यर्थः 'परं चउरायपंचरायाओ' चतूरात्रपञ्चरात्रात् । पूर्व परतो वा 'थेरे पासेज्जा' स्थविरान् पश्येत् । शेषं सर्वं चरिकाप्रविष्टविषयकविंशतितमसूत्रवद् व्याख्येयम् ।