________________
M
.. भाष्यम् उ०४ सू० २१-२२
परिकानिवृत्तस्य पुनरागमने विधिः १२५ मिति परिभूतः सन् ततश्चतूरात्रात् पञ्चरात्राद्वा परतः 'थेरे पासेज्जा' स्थविरान् स्वकीयगणनायकान् पश्येत् पुनरपि च तस्य भावः प्रत्यावृत्तो भवेत् तदा स भूयोऽपि प्रथमोपसंपदीव यथा पूर्व तत्प्रथमतया उपसंपदि स्थितः तद्वत् तेषां स्थविराणां पार्वे 'पुणो आलोएज्जा' पुनरपि प्रथमोपसंपदीव भूयोऽप्यालोचयेत् आलोचनां कुर्यात् स्वकीयापराधं गुरुसमीपे वचसा प्रकाशयेत् 'पुणो पडिक्कमेज्जा' पुनर्भूयोऽपि प्रतिकामेत् तत्पाफ्स्थानात् पुनरकरणतया प्रत्यावर्तनरूपं प्रतिक्रमणं कुर्यात् 'पुणो छेयस्स परिहारस्स उवद्वाएज्जा' पुनभूयोऽपि छेदाय छेदप्रायश्चित्तग्रहणाय परिहाराय वा परिहारतपोग्रहणाय वा उपतिष्ठेत उपस्थितो भवेत् , विपरिणते अपरिपते वा भावे यत्किञ्चित् प्रायश्चित्तस्थानं प्राप्तवान् , तस्मिन् पापस्थाने आलोचिते प्रतिक्रान्ते सति गणनायकेन यत् छेदनामकं परिहारनामकं वा प्रायश्चित्तं निर्दिष्टम् तत्सम्यक् श्रद्धाय तस्य करणार्थमुपतिष्ठेत अभ्युद्यतो भवेत् । प्रथमं स्वगच्छात् विनिर्गतः पुनर्भावपरावर्त्तनेन स्वगच्छं समागतः तदनन्तरमाचार्येण यत् प्रायश्चित्तं दीयते तस्य सर्वस्यापि परिपालनाय समुद्यतो भवेदिति भावः । किमर्थं छेदादिप्रायश्चित्तार्थमभ्युद्यतो भवेत् ! तत्राह-'भिक्खुभावस्स अट्ठाए ' भिक्षुभावस्य भिक्षुत्वस्याऽर्थाय प्रयोजनाय 'यथाऽवस्थितं मे भिक्षुत्वं पुनरपि भूयात्' इत्येवमर्थम् , अथवा भिक्षुभावो नाम-स्मारणा, वारणा, नोदना, प्रतिनोदना, तत्र विस्मृतेऽथे स्मारणा १, अतिचारादेः प्रतिषेधनं वारणा २, स्खलितस्य पुनः शिक्षणं नोदना ३, स्खलितस्य पुनः पुनर्निष्ठुरं शिक्षापणं प्रतिनोदना ४ । एताभिर्यथावस्थितो भावो भिक्षुभावः, एता यथा पूर्वमासीरन् तथेदानीमपि स्युरित्येवमर्थम् 'दोच्चंपि ओग्गहे अणुन्नवेयन्वे सिया' द्वितीयमपि वारमवग्रहोऽनुज्ञातव्यः स्यात् भवेत् , द्वितीयवारमवग्रहानुज्ञां गृह्णीयात् 'कप्पइ से एवं वदित्तए' कल्पते 'से' तस्य एवं वक्ष्यमाणप्रकारेण वक्तुम् । कथमित्याह-'अणुजाणह भंते' अनुजानीत भदन्त ! हे भदन्त ! 'मिओग्गई' मितमवग्रहम् , अत्रावाहेत्युपलक्षणं गमनादीनाम् , तथाचाऽयमर्थः-मितं प्रमाणयुक्तं मर्यादायुक्तमवग्रहम् , मितं गमनं प्रयोजनवशतः, मितमवस्थानम् विश्रामनिमित्तम् , मितं निषीदनं, मितं- त्वग्वर्तनादिकम् । तत्र मितनिषीदनं स्वाध्यायादिनिमित्तम् , मितत्वग्वर्त्तनं पार्श्वपरितापकारणात् , आदिशब्दात् मितभाषणं कार्ये समापतिते भाषणावसरभावात् , मितभोजनम् एककुक्षिपूरणमात्रस्य भगवताऽनु. ज्ञातात् , हे भदन्त ! तत्सर्वमनुजानीत 'अहालंद' यथालन्दं यथाकालं 'धुवं' ध्रुवम् गच्छमर्यादया यदवश्यं कर्त्तव्यम् 'निययं' नियतं यावदवधावनिकामर्यादा तावदहमपि न त्यक्ष्यामि अवश्यकरणीयम् 'निच्छइयं' नैश्चयिक यावत् सहायान् न लभे तावत् अवश्यं निश्चयभावेनाऽनुष्ठेयम् तथा 'वेउट्टियं' व्यावर्तितम् प्रतिदिनं पक्षचातुर्मासिकसंवत्सरादौ क्षामणादिषु वा अनेकप्रकारमाज्ञाविलोपनं कृतम् , इत्येतत्सर्वमनुजानीत क्षमध्वमित्यर्थः । 'तओ पच्छा कायसंफासं'
व्य. १६