SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १२० व्यवहारसूत्रे भाष्यम् –'चरियापविटे भिक्खू' चरिकानिमित्तं ये श्रमणा ग्रामानुग्रामगताः तेषां मध्यात् एकतरं श्रमणमधिकृत्य कथ्यते चरिकाप्रविष्टो भिक्षुः श्रमणः स्वगच्छीयस्थविराणामाज्ञामन्तरेण विहत्तुं प्रवृत्तः साधुः 'जाव चउरायपंचरायाओ' यावत् चतूरात्रात्पश्चरात्राद्वा, अत्र यावत्पदेन- 'एकद्वित्रि' इति पदं गृह्यते ततश्चायमर्थः-एकद्वित्रिचतुःपञ्चरात्रात् , यथा एकरात्रात् द्विरात्रात् त्रिरात्रात् चतूरात्रात् पञ्चरात्राद्वा परं 'थेरे पासेज्जा' स्थविरान् स्वकीयगणनायकान् पश्येत् एकादिपञ्चरात्रानन्तरं यदा पूर्वथविरैः सह मिलेदित्यर्थः तदा तस्य स्थविरैः सह मिलितस्य 'सच्चेव आलोयणा' सैवालोचना तिष्ठति या खलु आलोचना अन्यस्माद्गणादागते उपसंपद्यमाने वितीर्णा 'सच्चेव पडिक्कमणं' तदेव परिक्रमणम् अन्यगणादागत्य तस्मिन् गणे उपसंपद्यमाने यत् तस्मात् पापस्थानात् प्रत्यावर्त्तनरूपं तदेव, 'सच्चेव ओग्गहस्स पुवाणुन्नवणा चिट्टई' सैव चावग्रहस्य पूर्वानुज्ञापना तिष्ठति या अनुज्ञापना अन्यदीयगणादागते उपसंपद्यमाने च साधर्मिकावग्रहस्याऽनुज्ञापनाकृता आसीत् सैवेति 'अहालंदमवि उग्गहे' यथालन्दमप्यवग्रहे यथाकालमपि, अत्रापिशब्दः संभावनायाम् तेन न केवलं यथाकालमेव किन्तु चिरमपि यथाकालं यावत्ततो गच्छात् तस्य भावो न विपरिणमति तावदवग्रहे अवग्रहस्य सैव पूर्वाऽनुज्ञापना तिष्ठति, आज्ञामन्तरेण विहारप्रवृत्तः साधुवित् एकद्वित्रिचतूरात्रपञ्चरात्रपर्यन्तं विहृत्य स्थविरान् दृष्ट्वा भवदाज्ञामन्तरेणाहं विहारं कृतवान् इत्येवंरूपेणाऽऽलोचना कर्त्तव्या, प्रतिक्रमणं कर्त्तव्यम् । तथा यत्रैतावत्कालं स्थितः तत्रत्यस्थविराज्ञामादाय पुनः यस्य स्थविरस्य पार्श्वे पूर्वमासीत् तदाज्ञायामेव भूयोऽवस्थितो भवेत् । तथा यावत्पर्यन्तं हस्तरेखा शुण्येत् तावत्कालमपि स्थविराज्ञामन्तरेण न तिष्ठेदिति भावः ॥ सू० २०॥ सूत्रम्-चरियापविहे भिक्खू परं चउरायपंचरायाओ थेरे पासेज्जा पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयस्स परिहारस्स उवट्ठाएज्जा भिक्खुभावस्स अट्टाए दोच्चंपि ओग्गहे अणुन्नवेयव्वे सिया, कप्पइ से एवं वदित्तए-अणुजाणह भंते ! मिओग्गहं अहालंद धुवं निययं निच्छइयं वेउट्टियं तओ पच्छा कायसंफासं ॥ सू० २१॥ छाया-चरिकाप्रविष्टो भिक्षुः परं चतूरात्रपञ्चरात्राद्वा स्थविरान् पश्येत् पुनरालोचयेत् पुनः प्रतिक्रमेत् पुनश्छेदस्य परिहारस्योपतिष्ठेत् भिक्षुभावस्यार्थाय द्वितीयमप्यवग्रहोऽनुज्ञातव्यः स्यात् कल्पते तस्य एवं वक्तुम्-अनुजानीत भदन्त ! मितमवग्रहम् यथालन्द ध्रुवं नियतं नैश्चयिकं व्यावृत्तम् ततः पश्चात् कायसंस्पर्शम् ॥ सू० २१॥ भाष्यम्-'चरियापविद्वे भिक्खू' चरिकाप्रविष्टः स्थविराज्ञामन्तरेण एकतो विहारादिनिमित्तं गतो भिक्षुः 'परं चउरायपंचरायाओ' परं चतूरात्रात् पञ्चरात्राद्वा इत्यत्र व्याख्यानतो विशेषप्रतिपत्तिस्ततः परमित्यस्यायमर्थः-परम् परिणते भावे चतुःपञ्चरात्रात् पूर्व परतो वा यदि चरिकाप्रविष्टस्य श्रमणस्य भावो विपरिणतो भवेत् यथा कोऽत्र स्थास्यति, अत्रतो मया निष्क्रमितव्य
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy