SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ४ सू० १९-२० अनेकसाधर्मिकाणामेकतो विहरणविधिः ११९ भाष्यम् – 'बहवे' बहवोऽनेके त्रिप्रभृतिकाः 'साहम्मिया' साधर्मिकाः समानधर्मवन्तः साम्भोगिकाः 'इच्छेज्जा' इच्छेयुः, किमिच्छेयुः ? तत्राह - ' एगयओ' इत्यादि । एगयओ एकतः एकत्र सहिता इत्यर्थः 'अभिनिचरियं चारए' अभिनिचरिकां चरितुम्, तत्र एकत्र मिलित्वा विचरणम्, एकत्र मिलित्वा वासकरणम्, एकत्र मिलित्वा चलनं अभिनिचरिका, तां कर्त्तुं बहवः श्रमणा इच्छेयुः, एवं प्रकारेण तेषामिच्छताम् ‘नो हें कप्पइ येरे अणापुच्छित्ता' नो खलु सूत्रे 'पह' इति सर्वत्र खल्वर्थे' तेषामभिनिचरिकां चरितुं कल्पते स्थविरान् गच्छनायकान् अनापृच्छ्य अनामन्त्र्य, स्थविराणामाज्ञां विना तेषामिच्छतामपि अभिनिचरिकां चरितुं कथमपि न कल्पते स्वच्छन्दचारित्वदोषसंभवात् । तर्हि कथं कल्पते ? इत्याह- ' कप्पर हूं' इत्यादि, 'कप्पइ ह थेरे आपुच्छित्ता ears अभिनिचरियं चारए' यस्मात् कारणात् स्वच्छन्दचारित्वदोषापातस्तस्मात् कारणात् कल्पते खलु तेषां स्थविरान् गणनायकान् आपृच्छय आमन्त्र्य तदाज्ञां लब्ध्वेत्यर्थः एकतोऽभिनिचरिकां चरितुमिति । 'थेरा य से वियरेज्जा एवं हं कप्पइ एगयओ अभिनिचरियं चारए' आपृच्छायां कृतायां सत्यां यदि स्थविराश्च तेषां वितरेयुरनुजानीयुरनुज्ञां दद्युरित्यर्थः तदा एवं खलु कल्पते तेषा - मिच्छतां बहूनामेकत्र मिलित्वा एकतोऽभिचरिकां गमननिवासादिरूपां चरितुम् । अथ यदि आप - च्छायां कृतायामपि 'थेरा य से नो वियरेज्जा' स्थविराश्च तेषां नो वितरेयुः अनुज्ञां यदि नो दस्तदा एवं हं नो कपड़े एगयओ अभिनिचरियं चारए' एवं खलु तेषां न कल्पते न कथमपि युज्यते एकतः एकत्र मिलित्वा अभिनिचरिकां चरितुम् । 'जं तत्थ थेरेहिं अविइण्णे' यत् पुनः तत्र स्थविरैः गणनायकैरवितीर्णेऽननुज्ञाते सति 'एगयओ अभिनिचरियं चरंति' एकत एकत्र - मिलित्वा अभिनिचरिकां चरन्ति कुर्वन्ति 'से संतरा छेए वा परिहारेवा' से तेषां प्रत्येकं सान्तरात् तत्स्थानादप्रत्यावर्त्तनरूपात् यावन्ति दिनानि तेऽभिनिचरिकां चरन्ति तावद्दिनपरिमितकालमाश्रित्येत्यर्थः छेदो वा परिहारो वा छेदनामकं परिहारनामकं दशरात्रिकं तपः प्रभृतिकं वा प्रायश्चितं भवतीति ॥ सू० १९ ॥ पूर्वसूत्र स्थविराज्ञयाऽभिनिचरिका प्रोक्ता, साम्प्रतमनाज्ञाविचरतो भिक्षोः प्रायश्चित्तमाह'चरियापविट्टे' इत्यादि । सूत्रम् - चरियापविट्ठे भिक्खू जाव चउरायपंचरायाओ थेरे पासेज्जा सच्चेव आलोयणा सच्चेव पडिक्कमणा सच्चेव ओग्गहस्स पुव्वाणुन्नवणा चिट्ठा अहालंदमवि उग्गहे ।। सू० २० ॥ छाया -- चरिकाप्रविष्टो भिक्षुर्यावत् चतूरात्रपञ्चरात्राद्वा स्थविरान् पश्येत् सैव आलोचना तदेव प्रतिक्रमणम् सैवोपग्रहस्य पूर्वानुज्ञापना तिष्ठति यथालन्दमप्यव - प्रहे ॥ सू० २० ॥
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy