________________
११८
व्यवहारसूत्रे समाकुले ग्रामे भिक्षाद्यर्थ भ्रमन्तं दृष्ट्वा सम्यगवलोक्य कश्चित्साधर्मिको वदेत् पृच्छेदित्यर्थः, किं पृच्छेदित्याह – 'कं' इत्यादि, 'के अज्जो ! उवसंपज्जित्ता णं विहरसि' हे आर्य ! कमाचार्यविशेषमुपसंपद्य कस्याचार्यस्य निश्रायां तिष्ठन् खलु त्वं विहरसि एवं साधर्मिकेण पृष्टः सन् 'जे तत्थ सव्वराइणिए' यस्तत्र यत्र गच्छे गतस्तस्मिन् स्थाने सर्वरत्नाधिको गीतार्थ आचार्यो भवेत्तं वदेत् अमुकस्य रत्नाधिकस्य निश्रायां तिष्ठामीति वदेत् । तस्मिन्नेवमुक्ते स परिकल्पयति-यमयं व्यपदिशति स तु अगीतार्थः, न चाऽयमगीतार्थनिश्रया विहरति ततः स साधर्मिकः पुनरपि पृच्छति-'अह भंते' इत्यादि 'अह भंते कस्स कप्पाए' अथ भदन्त ! कस्याचार्यस्य कल्पेन कस्य निश्रया विहरसीति । सूत्रे 'कप्पाए' इत्यत्र स्त्रीत्वं प्राकृतत्वात् । एवमुक्ते 'जे तत्थ बहुस्सुए तं वएज्जा' यः कोऽपि तत्र स्थाने बहुश्रुतस्तं वदेत् तस्य सर्वरत्नाधिकस्याचार्यस्याऽगीतार्थस्य यो गीतार्थः शिष्यः सूत्रार्थनिष्णातः समस्तस्यापि गणस्य तृप्तिकारकस्तस्य नाम गृह्णीयात्, यद् अमुकस्य निश्रयाऽहं विहरामीति वदेत् -'जं वा से भगवं वक्खइ' यं वा स भगवान् ज्ञानादिसंपदासम्पन्नः वक्ष्यति कथयिष्यति यथाऽमुकस्याऽऽज्ञा त्वया परिपालनीये-ति, 'तस्स आणाउववायवयणनिदेसे चिहिस्सामि' तस्यैव आज्ञोपपातवचननिर्देशे आज्ञा च उपपातश्च वचननिर्देशश्चेति समाहारद्वन्द्वः, तेन माज्ञायाम् उपपाते-समीपे, वचननिर्देशे आदेशप्रतीक्षायां च स्थास्यामीति ॥ सू०१८॥
पूर्वसूत्रे माज्ञायां स्थास्यामीन्युक्तम् , इत्यनेन गुरूणामाज्ञा बलवती भवति-'आज्ञासारश्च गच्छवासः' इति ध्वनितम् ततः शरीरस्य प्रतिरोद्धुमशक्तं श्वासोच्छासनिमेषादिक्रियाव्यापार मुक्त्वा सर्वेषु व्यापारेषु गुर्वाज्ञा पालनीयेति तदर्थप्रतिपादनार्थमिदं सूत्रमाह-'वहवे साहम्मिया' इत्यादि ।
सूत्रम्--बहवे साहम्मिया इच्छेज्जा एगयओ अभिनिचरियं चारए णो ण्हं कप्पइ थेरे अणापुच्छित्ता एगयओ अभिनिचरियं चारए, कप्पइ ण्हं थेरे आपुच्छित्ता एगयओ अभिनिचरियं चारए, थेरा य से वियरेज्जा एवं हं कप्पइ एगयओ अभिनिचरियं चारए, थेरा य से नो वियरेज्जा एवं हं नो कप्पइ एगयओ अभिनिचरियं चारए, जं तत्थ थेरेहि अविइण्णे एगयओ अभिनिचरियं चरंति से अंतरा छेए वा परिहारे वा ॥ सू० १९ ॥
छाया-बहवः साधर्मिका इच्छेयुरेकतोऽभिनिचरिका चरितुम् नो खलु कल्पते स्थविराननापृच्छय एकतोऽभिनिचरिकां चरितुम् , कल्पते खलु स्थविरानापृच्छय एकतोऽभिनिवरिकां चरितुम् , स्थविराश्च ते वितरेयुः एवं खलु कल्पते एकतोऽभिनिचरिकां चरितुम् स्थविराश्च ते नो वितरेयुः एवं खलु नो कल्पतेऽभिनिचरिकां चरितुम् , यत्तत्र स्थविरैरवितीणे एकतोऽभिचरिकां चरन्ति तेषां सान्तरात् छेदो वा परिहारो वा ।। सू०१९॥