SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ४ २०१८ भिक्षोगणान्तरगमने तत्रावस्थानविधिः ११७ दशरात्रप्रभृतिकं वा प्रायश्चितम् । अत्र तस्य भाविकल्पाकस्य माननीयपित्रादिकस्य सद्भावे यदि नवदीक्षितं तत्कारणमाश्रित्य नोपस्थापयति तदाऽऽचार्यादर्न किमपि छेदपरिहारादिकं प्रायश्चित्तमापतति, माननीयकल्पाकोपस्थापनानन्तरमेव लघुवयस्कनवदीक्षितस्याधिकारप्राप्तत्वादिति भावः । अथ 'नत्थि य इत्थ से केइ माणणिज्जे कप्पाए' नास्ति न विद्यते चाऽत्र गच्छे तस्याऽभिनवदीक्षितस्य कश्चिन्माननीयः पित्रादि विकल्पाकः तर्हि तस्याऽभिनवदीक्षितस्य तत्कालमेवोपस्थापनमकर्तराचार्यस्य उपाध्यायस्य वा छेदनामकं परिहारनामकं दशरात्रं वा यद्यत्तपः तत्तप्रभृतिकं प्रायश्चित्तं भवत्येव । अथ यदि स छेदं परिहारं तदुभयं वा तपो धृतिकायबलाधभावेन वोढुं न शक्नुयात् तदा 'संवच्छरं तस्स तप्पत्तियं' संवत्सरं वर्षपर्यन्तं यावत् तस्याऽनुपस्थापयितुराचार्यस्य उपाध्यायस्य वा तत्प्रत्ययिकम्-अनुपस्थापननिमित्तकम् 'नो कप्पई' नो कल्पते 'आयरियत्तं वा' आचार्यत्वं वा गणनायकपदं वा 'पवत्तयत्तं वा' प्रवर्तकत्वं वा 'थेरत्तं वा' स्थविरत्वं वा 'गणित्तं वा गणित्वं वा 'गणहरत्तं वा' गणधरत्वं वा 'गणावच्छेययत्तं वा' गणावच्छेदकत्वं वा 'उद्दिसित्तए वा' उद्देष्टुमनुज्ञातुं वा संवत्सरपर्यन्तम् आचार्यादिपदं त्याजयित्वा तत्सकाशाद् गणो हियते, अमुस्मिन् अपराधे तपोवहनाशक्तस्य आचार्यादेः पदापहरणमात्रदण्डस्यैव विधानादिति ॥ सू० १७ ॥ पूर्वसूत्र आचार्यस्य गणापहरणमुक्तम्, ततो गुरोर्गणहरणं दृष्ट्वा गणस्थो भिक्षुः 'मे गुरोर्गणः किमिति हृतः' इति विचिन्त्यास्मादेवापमानकरणाद् भिक्षुरन्यत्र गणान्तरे गच्छेत्, यद्वा यस्य गणो हृतः स एव वा गणहरणापमानेन कलुषितः सन् अन्य गणं व्रजेदित्यन्यगणोपसम्पत्प्रतिपादनार्थमाह—'भिक्खू य' इत्यादि । सूत्रम्-भिक्खू य गणाओ अवकम्म अन्नं गणं उवसंपज्जिचा णं विहरेज्जा तं च केइ साहम्मिए पासित्ता वएज्जा-कं अज्जो ! उवसंपज्जित्ता गं विहरसि ? जे तत्थ सव्वराइणिए तं वएज्जा, अह भंते कस्स कप्पाए ! जे तत्थ बहुस्सुए तं वएज्जा जं वा से भगवं वक्खइ तस्स आणाउववायवयणनिदेसे चिहिस्सामि ॥ सू०१८ ॥ छाया-भिक्षुश्च गणादवक्रम्य अन्यं गणमुपसंपद्य खलु विहरेत् तं च कश्चित् साधर्मिको दृष्ट्वा वदेत् कम् आर्य ! उपसंपद्य विहरसि । यः तत्र सर्वरत्नाधिकः तं वदेत्, अथ भदन्त ! कस्य कल्पेन यस्तत्र बहुश्रुतस्तं वदेत् यं वा स भगवान् वक्ष्यति तस्याशोपपातवचननिर्देशे स्थास्यामि ॥ सू० १८॥ भाष्यम्-'भिक्खू य' भिक्षुश्च 'गणाओ अवक्कम्म' गणात् स्वकीयगच्छात् अवक्रम्य निष्क्रम्य 'अन्नं गणं उपसंपज्जित्ता णं विहरेज्जा' गणहरणकारणं, यद्वा विशिष्टसूप्रार्थनिमित्तमन्यकारणनिमित्तं वा अन्यम् अन्यदीयं गणं गच्छमुपसंपद्य परकीयगच्छं प्राप्य विहरेत् तिष्ठेत् 'तं च केइ साहम्मिए पासित्ता वएज्जा' तं श्रमणं च कचित् अनेकभिक्षाचरादि
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy