SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे 'नथि य इत्थ से माणणिज्जे कप्पाए' अथ यदि नाऽस्ति न विद्यते अत्राऽस्मिन् गच्छे 'से' तस्य माननीयः पिता ज्येष्ठभ्रातादिर्वा कल्पाकः सूत्रार्थप्राप्तः कश्चित् तदा चतूरात्रात् पञ्चरात्राद्वा परमस्मरतः 'से' तस्य आचार्यस्य उपाध्यायस्य वा 'संतरा छेए वा परिहारे वा' सान्तरात् यावन्ति दिनानि तस्योपस्थापने व्यवधानीकृतानि तावदिनपरमितः छेदो वा परिहारो वा छेदनामकं परिहारनामकं सप्तरात्रं वा तपः प्रायश्चित्तं भवतीति ॥ सू० १६ ॥ सूत्रम्-आयरियउवज्झाए सरमाणे वा असरमाणे वा परं दसरायकप्पाओ कप्पागं भिक्खु नो उवट्ठावेइ कप्पाए, अस्थि य इत्थ से केइ माणणिज्जे कप्पाए नत्थि य इत्थ से केइ छेए वा परिहारे वा, नत्थि य इत्थ से केइ माणणिज्जे कप्पाए संवच्छरं तस्स तप्पत्तियं नो कप्पइ आयरियत्तं वा उवज्झायत्तं वा पवत्तयत्तं वा थेरत्तं वा गणित्तं वा गणहरत्तं वा गणावच्छेययत्तं वा उद्दिसित्तए वा ॥ सू० १७ ॥ __छाया-आचार्योपाध्यायः स्मरन् वा अस्मरन् वा परं दशरात्रकल्पात् कल्पाकं भिक्षुनो उपस्थापयति कल्पाके, अस्ति चाऽत्र कश्चित् माननीयः कल्पाकः नाऽस्ति तस्य कश्चित् छेदो वा परिहारो वा, नास्ति चाऽत्र तस्य कश्चित् माननीयः कल्पाकः संवत्सरं तस्य तत्प्रत्ययिकं नो कल्पते आचार्यत्वं वा उपाध्यायत्वं वा प्रवर्तकत्वं वा स्थघिरत्वं वा गणित्वं वा गणधरत्वं वा गणावच्छेदकत्वं वा उद्देष्टुम् ॥ सू० १७ ॥ भाष्यम्-'आयरियउयज्झाए' आचार्यः उपाध्यायो वा 'सरमाणे वा असरमाणे वा' स्मरन् 'अयं नवदीक्षितः श्रमण उपस्थापनायोग्यः' इत्येवं स्मरन्, विस्मरन् वा यस्मिन् काले स्मरण करोति 'अयमुपस्थापनयोग्यः' इति तत्समये उपस्थापनासाधकं प्रशस्तलग्ननक्षत्रमुहर्तादिकं न मिलति, यदा तु साधकं लग्ननक्षत्रादिकमनुकूलमुपस्थितं भवति, तदा संघकार्यादिव्याक्षेपात् न स्मरति तत एवं कथ्यते यत् स्मरन् वा अस्मरन् वा 'परं दसरायकप्पाओ' परं दशरात्रकल्पात् कालः समयः अद्धा, कल्पः, इति समानार्थकाः कालवाचकाः शब्दाः, ततोऽत्र कल्पशब्दः कालार्थकः तथाच-स्मरणेऽपि पञ्च, अस्मरणेऽपि पञ्चेति स्मरणास्मरणमिश्रसूत्रत्वेन दशरात्रात्कल्पादिति दशरात्रात्मककालात् परमधिकं कालं यावत् 'कप्पागं' कल्पाकं प्राप्तसूत्रार्थम् 'भिक्खु” भिक्षु 'नो उवट्ठावेइ' नो उपस्थापयति महावते नाऽऽरोपयति 'कप्पाए' कल्पाकेऽधिगतसूत्रार्थे तस्मिन् विद्यमाने सति तत्र यदि 'अस्थि य इत्थ से केइ माणणिज्जे कप्पाए' अस्ति चाऽत्र तस्य कश्चित् माननीयः कल्पाकः, यद्यत्र गच्छे तस्य अभिनवदीक्षितस्य माननीयः पितृभ्रातृप्रभृतिकः समीपतरकाले भाविकल्पाको विद्यते तदा नोपस्थापयति अभिनव दीक्षितं तर्हि तु 'नत्थि इत्थ से केइ छेए वा परिहारे वा' नास्ति न भवति तस्याऽनुपस्थापयितुराचार्यस्योपाध्यायस्य वा कश्चित् छेदो वा परिहारो वा छेदनामकं परिहारनामकं
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy